________________
सूत्र १५ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
किं तर्हि ? कुतश्विदेव प्राणिघातात् । यत एकेन्द्रियाः पृथिव्यादिकायाः पञ्च प्रायो दुष्परिहाराः सद्मवासिनाम् । स्थूलाश्च द्वित्रिचतुःपञ्चेन्द्रियाः । स्थूलत्वं सकललौकिक जीवत्वप्रसिद्धेः सूक्ष्मत्वं विगानेन जीवत्वप्रसिद्धेर्लोके । तत्रापि सङ्कल्पजं प्राणातिपातं प्रत्याख्याति, न आरम्भजम् । आरम्भो हि हलदन्तालखनन सूनापञ्चकप्रकारः । तत्रावश्यंतयैव शङ्खणकपिपीलिकाधान्यग्रगृहकारिकामण्डूकादयः संघट्टपरितापापद्रवणक्रियाभिः स्पृश्यन्ते । तस्मान्न समस्ति प्रत्याख्यानं तद्विषयम् । संकल्पजस्य तु संभवति, मनसा संकल्प्य द्वीन्द्रियादिप्राणिनो मांसास्थिचर्मनखवालदन्ताद्यर्थं न हन्मीति, असुमतो निवर्तते सङ्कल्पकृतात् प्राणातिपातात् । न करोमि न कारयामि मनसा वाचा कायेनेत्येवं विषयं प्राणातिपातमित्यादि विकल्पानामन्यतमेन प्रत्याचष्टे । तथा मृषावादान सर्वस्माद्, किं तर्हि ? स्थूलाद् भिन्नकन्यकां सतीमेवं भूमिं (उषरभूमिं ) अल्पश्रीरामेव गां बहुक्षीरां नाभिदधेऽहमित्यादिकात् । तथा कूटसाक्षित्वदानादेश्व व्यावर्तते, न पुनः स्नेह द्वेषमोहाभिभवाद् विपरीतभाषी भवति । प्रत्याख्यान विधिस्तु पूर्ववत् । तथा अदत्तादानान सर्वस्मात्, किन्तु स्थूलात्, चौर्यारोपणहेतुत्वेन प्रसिद्धाद् द्विपदचतुष्पदाऽपदविषयान्निवर्तते, न पुनः अल्पतृणेन्धन गोमयादिग्रहणात् । प्रत्याख्यानं पूर्ववत् । तथा मैथुनाद् न सर्वस्मात्, किन्तु स्थूलात्; स्थूलं च परदारगमनं, तद्विषर्यमस्य प्रत्याख्यानं, अन्यपक्षे न । प्रत्याख्यानविधिः (च) पूर्ववत् । तथेच्छापरिमाणं प्रतिजानीते, अन्यतः परिग्रहात् विरमति सचित्तादेः स्थूलात्, स्थूलाच्चापरिमाणतः सर्वेषां क्षेत्र वास्त्वादीनामभिलषित परिमाणव्यतिरेकं प्रत्याचष्टे । कालनियमेन भक्तवस्त्रभृत्यदारादीनामेतावता मम कार्यमिति । शेषात् प्रत्याख्यानं, तद्विधिश्च पूर्ववत् । एवमेतानि पञ्चाप्यणूनि - स्वल्पविषयाणि न यथोक्तसमस्तवियाणि व्रतानि यस्य सोऽणुव्रतोऽगारी व्रती भवतीति ॥ ननुच सोऽणुव्रत इत्येवं सूत्रं कार्यम् । उच्यते —– सत्यमेवमनगारित्रतपरामर्शः स्यात् तच्छब्देन, अनन्तरस्य विधिः ( वा भवति ) प्रतिषेधो वा " इति (परिभाषे०) वचनात् । अगारिणश्च महाव्रतधारित्वप्रसङ्गः । तच्चासमीचीनम् । अथ द्वयमभिसम्बध्यते अगार्यनगारश्च सोऽणुव्रतो भवतीति सुतरां महाव्रतानि निराधाराणि स्युः । अतोऽगारिग्रहणं कार्य, न कार्य महदित्यनेन शब्देन विशेषितानि तु तानि व्रतानि यस्य सोऽनगारो महाव्रतीत्यु (पर्युक्तत्वात् पारिशेष्यादगार्येव संभन्त्स्यते सोऽणुव्रत इति । एवं तर्ह्यधिकारार्थमगारिग्रहणम् । इतः प्रभृति यद् वक्ष्यते तत् सर्वमगारिणो भवति आ अध्यायपरिसमाप्तेरिति ॥
44
सम्प्रति भाष्यमुक्तार्थानुसारेणाश्रीयते—
भा० - अणून्यस्य व्रतानीत्यणुव्रतः । तदेवमणुव्रतधरः श्रावकोऽगारी - यति ।। १५ ।। किञ्चान्यत्
१ तद्विपर्यय इति ङ-पाठः ।
•
7
प्रत्या० ' इति क-पाठः । ४ ' व्रती भवति' इति घ-पाठः ।
२ ' क्षीरामेवगामदधे ' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
८७
३ ' यमस्य प्रत्याख्यान्यक्षेण
www.jainelibrary.org