SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २६२ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः मार्तस्य प्रथमो. सूत्रम्-आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय विकल्पः स्मृतिसमन्वाहारः॥ ९-३१॥ मा०-अमनोज्ञानां विषयाणां सम्प्रयोगे तेषां विप्रयोगार्थ पः स्मृतिसमम्वाहारो भवति तदातध्यानमित्याचक्षते ॥३१॥ किश्चान्यत् टी-आर्तमनोज्ञानां इत्यादि । आर्तशब्दः पूर्ववद् व्याख्येयः । अयं चापरप्रकारः। .. अर्तिर्धातुर्दुःखार्थः । तस्यार्तिरिति रूपम् । अर्तिश्च-दुःखं शारीरं मानसं भातशब्दस्य - चानेकप्रकारं तस्यां भवमात ध्यानम् । अमनोज्ञा-अनिष्टाः शब्दादयः निष्पत्तिः - तेषां सम्बन्धे इन्द्रियेण सह सम्पर्के सति चतुर्णा शब्द-स्पर्श-रस-गन्धानामेकस्य च योग्यदेशावस्थितस्य द्रव्यादेस्तेने विषयिणा ग्राह्यग्राहकलक्षणे सम्प्रयोगे सति तदिप्रयोगायेति । तदित्यमनोज्ञविषयाभिसम्बन्धः । तेषाममनोज्ञानां शब्दादिनां विप्रयोगः अपगमस्तदर्थं विप्रयोगायानिष्टशब्दादिविषयपरिहाराय यः स्मृतिसमन्वाहारस्तदातम् । स्मृतिसमन्वाहारो नाम तद्विप्रयोगादेवानुग्रहप्रतिपत्तीच्छया य आत्मनः प्रणिधानविशेषः स समन्वाहारः स्मृतेः कथमहमसादमनोज्ञविषयसम्प्रयोगाद् विमुच्येयेति । सर्यतेऽनेनेति स्मृतिमनोभिधीयते । स्मृतिहेतुत्वाद् वा स्मृतिर्मनः। तस्याः स्मृतेः प्रणिधानरूपायाः समबाहरणं समन्वाहारः । अमनोज्ञविषयविप्रयोगोपाये व्यवस्थापनं मनसो निश्चलमार्तध्यानं केनोपायेन वियोगः स्यादित्येकतानमनोनिवेशनमार्तध्यानमित्यर्थः ॥ ३१ ॥ किश्चान्यदिति सम्बनाति। प्रकारान्तरमन्यदस्यार्तस्यास्तीत्याहमार्तस्य द्वितीयो विकल्प यो सूत्रम्-वेदनायाश्च ॥ ९-३२॥ टी-वेदनं-वेदनाया अनुभवः । अनन्तरसूत्रमनुवर्तते तदमिसम्बभन् भाष्यकृदाह भा०-वेदनायाश्चामनोज्ञायाः सम्प्रयोगे तबिप्रयोगाय स्मृतिसमन्वाहार आर्तमिति ॥ ३२॥ किश्चान्यत्____टी-वेदनाया अमनोज्ञाया इत्यादि । सुखा दुःखा चोभयी घेदना । तत्रामनोज्ञायाः सम्प्रयोगे वेदनायाः प्रकुपितपवनपित्तश्लेष्मसन्निपातनिमित्तैरुपजातायाः शूलशिरःकम्पज्वराक्षिश्रवणदशनादिकायास्तदिप्रयोगाय स्मृतिसमन्वाहारो ध्यानमार्तमेष द्वितीयो विकल्पः । किश्चान्यदित्यार्तप्रकारान्तरं दर्शयति १ 'स्वेन' इति छ पाठः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy