________________
व्युत्पत्तिः
सूत्र ३०] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२६१ टरी०–कृतद्वन्द्वान्यार्तादीनि नपुंसकबहुवचनेन निर्दिष्टानि-तचतुर्विधं भवतीत्यादि। तद्धयानं सामान्येन लक्षितं चतुर्विधं भवति-चतुर्धा भिद्यते । चतस्रो विधा यस्य तच्चतुर्विधम् । 'विधाप्रदर्शनायाह-तद्यथेति । आर्त, रौद्रं, धा, शुक्लमिति । तत्रातस्य शब्दनिर्भेदाभिधानम् । ऋतशब्दो दुःखपर्यायवाच्याश्रीयते । अर्तेर्गमिक्रियापरिस्पन्दिनो
. निष्ठाप्रत्ययान्तः । तस्मादागतार्थे तद्धितप्रत्ययो णित् । आर्त दुःखभवं आर्तादीनां
- दुःखानुबन्धि चेति । तथाचामनोज्ञविषयप्रयोगो दुःखम् । वेदना च नेत्र
" शिरोदशनादिका दुःखमेव । तथा मनोज्ञविषयविप्रयोगोऽशमैव । निदानमपि चित्तदुःखासिकयैव क्रियत इत्युपपन्नः प्रत्ययार्थः । तथा रोदयत्यपरानिति रुद्रो दुःखस्य हेतुः तेन कृतं तत्कर्म वा रौद्रं प्राणिवधबन्धपरिणत आत्मैव रुद्र इत्यर्थः । धर्मः क्षमादिदशलक्षणकस्तस्मादनपेतं धर्म्यम् । शुक्लं-शुचि निर्मलं सकलकर्मक्षयहेतुत्वादिति । शुग्वा दुःखमष्टप्रकारं कर्म तां च शुचं क्लमयतिग्लपयति निरस्पति शुक्लं इत्येतावदेव ध्यानं चतुर्विधमिति ॥ २९ ॥ तेषामित्यनेन सूत्र सम्बनाति
सूत्रम्-परे मोक्षहेतू ॥ ९-३०॥ भा० तेषां चतुर्णी ध्यानानां परे धर्म्य-शुक्ले मोक्षहेतु भवतः। पूर्वे स्वार्तरौद्रे संसारहेतू इति ॥३०॥
टी०-तेषां चतुर्णामित्यादि । यानि प्रस्तुतानि ध्यानानि तेषामार्त-रौद्र-धर्म-शुक्लानां चतुर्णोध्यानानांसूत्रसनिवेशमाश्रित्य परे धर्म्य-शुक्ले मोक्षहेतु-मुक्तेः कारणतां प्रतिपद्यते। तत्रापि साक्षात् मुक्तेः कारणीभवतः। पाश्चात्यौ शुक्लध्यानभेदी सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियां वा निवर्ति, धर्म्यध्यानं पुनराद्याभ्यां सह शुक्लभेदाभ्यां पारंपर्येण मोक्षस्य कारणं भवति, न साक्षादिति । ततश्चैतद्धHध्यानादि देवगतेमुक्तेश्च कारणं, न मुक्तरेव । अर्थादिदमगम्यमानमाह-पूर्वे त्वार्तरौद्रे संसारहेतु इति । आर्त-रौद्रयोः संसारहेतुतैव, न जातुचिन्मुक्तिहेतुता। संसारच नारकादिभेदश्चतुर्गतिक इति । परमार्थतस्तु रागद्वेषमोहाः संसारहेतवः । तदनुगत चातरौद्ररूपमपि प्रकृष्टतमरागद्वेषमोहभाजः, अतः संसारपरिभ्रमणहेतुता तयोरिति ॥३०॥
भा०-अत्राह-किमेषां लक्षणमिति । अत्रोच्यते--
टी-सम्प्रति ध्येयप्रकाराः विषयविषयिविकल्पनिमित्तभेदेनोच्यन्ते--अत्राहेत्यादि। सम्बन्धो लक्ष्यते येन तल्लक्षणं विलापशोकादि । अमनोज्ञविषयसम्बन्धे क्रन्दति शोचतीति लक्ष्यते आर्तध्यायी ॥
१ 'तत्प्रदर्शनाय"इति
पाठः। 'विधानप्र.' इति च पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org