SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ सूत्र ३३-३४ ] स्वोपज्ञभाग्य-टीकालङ्कृतम् २६३ भातस्य तृतीय- सूत्रम्-विपरीतमनोज्ञानाम् ॥९-३३॥ . विकल्प भा०-मनोज्ञानां विषयाणां मनोज्ञायाश्च वेदनाया विप्रयोगे तत्सम्प्रयोगाय स्मृतिसमन्वाहार आतम् ॥ ३३ ॥ किश्चान्यत् ___टी-मनोज्ञा-अभिरुचिता इष्टाः प्रीतिहेतवः तेषां विपरीत संयोजन कार्यम् । मनोज्ञानामित्यादि । मनोज्ञानां विषयाणां वेदनायाश्च मनोज्ञायाः विपरीतप्रधानामिसम्बन्धो विपरीतशब्देन क्रियत इत्याह-विप्रयोगे तत्सम्प्रयोगायेत्यादि । तत्सम्प्रयोगार्थः तत्सम्प्रयोगाय सम्प्रयोगप्रयोजनः स्मृतेः समन्वाहारः । कथं नु नाम भूयोऽपि तैः सह मनोज्ञविषयैः संप्रयोगः स्यान्ममेति । एवं प्रणिधसे दृढं मनस्तदप्यार्तमिति ॥३३॥ किश्चान्यदिति तुरीयमार्तप्रकारं दर्शयतिआर्तस्य चतुर्थो सूत्रम-निदानं च ॥९-३४॥ विकल्पः सूत्र निदान च ॥ टी.-निपूर्वाद् दातेर्लवनार्थस्य ल्युटि रूपम् । निदायते-लूयते लुप्यते येनात्महितमैनिदानशनस्य कान्तिकात्यन्तिकानाबाधसुखलक्षणं तनिदानमिति । शब्दः समुच्चये। सिद्धिः। एष चार्तप्रकार इत्यर्थः।। भा०-कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तध्यान भवति ॥३४॥ टी-कामोपहतचित्तानामित्यादि । काम-इच्छाविशेषः शब्दाधुपयोगविषयः । अथवा मदनः-कामः चिरमुग्रतपोनिष्ठाय कर्मक्षपणक्षमदीर्घदर्शितया खल्पस्य विनश्वरस्यावितृप्तिकारिणः सुरमनुजसुखैश्वर्यसौभाग्यादेः कृते तत्रैव कृतदृढप्रणिधाना बहविनश्वरं सतततृप्तिकारणमुक्तिसुखमनुपममवमन्य, प्रवर्तमानाः कामोपहतचेतसः पुनर्भवविषयगृद्धा विदधति यनिदानं तदार्तध्यानं निदानरूपम् । एष एवार्थों विभक्त्यन्तरेण प्रतिपादितः। कामोपहत. चित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तव्यानं भवतीति । तस्यैतस्यार्तध्यानस्य चतुःप्रकारस्यापि शोकादीनि लक्षणानि भवन्ति । यैरार्तध्यायी लक्ष्यते करतलपर्याप्तप्रम्लानवदनः शोचति क्रन्दति विलपति हा हा अहो धिक् कष्टं हु मानस्योरस्ताड परिदेवते दीर्घ निश्वसिति कवोष्णं शून्यव्याक्षिप्तचित्त इवोपलक्ष्यते । तथा कलहमायामात्सर्यास्यास्तथा अरतिः स्त्रीभोजनकथासुहृत्स्वजनानुरागाश्च तस्य लक्षणानि भवन्ति परिस्फुटानीति ॥ ३४॥ इत्थमार्तध्यानं सभेदकमभिधायाऽधुनास्यैव ध्यातारः स्वामिनो निरूप्यन्ते इति तदर्थमाह 'मवगम्य' इति च पाठः। २ 'पर्यस्तप्रम्लान' इति ग-पाठः, 'पर्यन्तप्रलान.' -पाठः । ३ 'मारस्ताडन' इति उ-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy