________________
२६४
आर्तध्यानस्य स्वामिनः
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ९
तदविरतदेशविरतप्रमत्तसंयतानाम् । ९ - ३५॥
सूत्रम् —
भा० - तदेतदातध्यानं अविरतदेशविरतप्रमत्तसंयतानामेव भवतीति ।। ३५ ।।
डी० - तदित्यार्तमभिसम्बध्यते । तदार्तध्यानमविरतसम्यग्दृष्ट्यादीनां त्रयाणां स्वामिनां सम्भवति । एतस्य त्रयः स्वामिनचतुर्थ पञ्चमषष्ठगुणस्थानवर्तिनः क्रमेणाविरतदेशविरतप्रमत्तसंयताः । अविरतश्वासौ सम्यग्दृष्टिश्वेति अविरतसम्यग्दृष्टिः प्रत्याख्यानावरैणोदये सति विरतिलक्षणस्य संयमस्याभावादविरतसम्यग्दृष्टिः । आह च — “ आवृण्वन्तिं प्रत्याख्यानं स्वल्पमपि येन जीवस्य । तेनाप्रत्याख्याना-वरणास्ते न हिंसोऽल्पार्थः ॥ १ ॥ - आर्या प्रत्याख्यानावरणसदृक्त्वाद् वा तत् तथा भवति सिद्धम् । न त्वब्राह्मणवचने, तत्सदृशः पुरुष एवेष्टः ॥ २ ॥” आर्या
औपशमिक - क्षायोपशमिक - क्षायिकभेदाच्च त्रिविधं सम्यग्दर्शनं, तद्योगात् सम्यग्दृष्टिः देशविरतः संयतासंयतः हिंसादिभ्यो देशतो विरतत्वात् संयतः, अन्यतः सावद्ययोगादनिवृत्त इति स एवासंयतः सोऽविरतसम्यग्दृष्टिस्थानादसंख्येयानि विशोर्धिस्थानानि गत्वा अप्रत्याख्यानावरणकषायेषु क्षयोपशमं नीतेषु प्रत्याख्यानावरणकषायोदयात् कृत्स्नप्रत्याख्यानाभावाद् देशविरतः । आह च
46
'तस्मादविरतसम्यग् - दृष्टिस्थानाद् विशोधिमुपगम्य । स्थानान्तराण्यनेका- न्यारोहति पूर्वविधिनैव ॥ १ ॥ - आर्या क्षपयत्युपशमयति वा, प्रत्याख्यानावृतः कषायांस्तान् । सततो येन भवेत् तस्य विरमणे बुद्धिरल्पेऽल्पा ॥ २॥ —,, तस्य तथैव विशोधि-स्थानान्यारोहतोऽतिसङ्ख्यानि । गच्छन्ति सर्वथापि, प्रकर्षतस्ते क्षयोपशमम् ॥ ३ ॥ —,, श्रावकधर्मो द्वादश-भेदः सञ्जायते ततस्तस्य । पञ्चत्रिचतुः सङ्ख्य- व्रतगुणशिक्षामयः शुद्धः ॥ ४ ॥ —” सर्वं प्रत्याख्यानं, येनावृण्वन्ति तदभिलषतोऽपि । तेन प्रत्याख्याना -वरणास्ते निर्विशेषोक्ताः ॥ ५ ॥” –,,
इदानीं प्रमत्तसंयतः । तस्मादसङ्ख्येयानि विशोधिस्थानान्यारोहतस्तृतीयकषायेषु प्रकर्षात् क्षयोपशमं गतेषु सर्वसावद्ययोगप्रत्याख्यानविरतिर्भवति । उक्तं च
Jain Education International
१ 'संयतानां' इति ङ-पाठः । २ ' वरणो देशविरति' इति च पाठः । ३ ' संयतीसंयतः ' इति घ-पाठः । ४' घितस्थानानि ' इति च पाठः । ५ ' शमनीयेषु' इति घ- पाठः ।
For Personal & Private Use Only
www.jainelibrary.org