SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ सूत्र ३६] स्वोपज्ञभाष्य टीकालङ्कृतम् "देशविरतोऽपि ततः, स्थानात् स विशोधिमुत्तमां प्राप्य । स्थानान्तराणि पूर्व-विधिनैव संयात्यनेकानि ॥१॥ -आर्या क्षपयत्युपशमयति वा, प्रत्याख्यानावृतः कषायांस्तान् । सततोदयेन भवेत् , तस्य विरमणे सर्वतोऽपि मतिः ॥२॥-, छेदोपस्थाप्यं चा-वृत्तं सामायिकं चैरित्रं वा ।। स ततो लभते प्रत्या-ख्यानावरणक्षयोपशमात् ॥३॥ -, तस्येदानी महाव्रतगुप्तिसमितियुक्तस्य कषायनिग्रहाद् इन्द्रियदमाञ्च निरुद्धाश्रवस्य निर्वेदा दिवैराग्यभावनाभिः स्थिरीकृतसंवेगस्य यथोक्तद्वादशप्रकारतपोयोगात् सश्चितानि कर्माणि निर्जरयतः सूत्रानुसाराद् यतमानस्यापि मोहनीयकर्मानुभावात् सङ्क्लेशाद् वा विशोध्या वाऽन्तर्मुहतात परावर्तते । ततः सज्वलनकषायोदयाद् , इन्द्रियविकथाप्रमादाद् , योगदुष्प्रणिधानात् , कुशलेष्वनादराच प्रमत्तसंयतो भवति, तस्मात् सङ्क्लेशाद्धायां वर्तमानः प्रमत्तसंयतः। एते त्रयोऽप्या ध्यायिनो भवन्ति, आर्तध्यानस्वामिन इत्यर्थः । एतदार्तध्यानमविरतादीनामेव भवति, नाप्रमत्तसंयतादीनामित्यर्थः । तदेतदात नातिसंक्लिष्टकापोतनीलकृष्णलेश्यानुयायि द्रष्टव्यमिति॥३५॥ सम्प्रति रौद्रध्यानं सस्वामिकमभिधित्सुराह सूत्रम्-हिंसा-ऽनृत-स्तेय-विषयसंरक्षणेभ्यो रौद्रस्वामिनः मविरतदेशविरतयोः॥९-३६ ॥ भा०–हिंसार्थमनृतवचनार्थ स्तेयाथै विषयसंरक्षणार्थ च स्मृतिसमन्याहारो रौद्रध्यानं, तदविरतदेशविरतयोरेव भवति ॥ ३६॥ टी-हिंसा अनृतं स्तेयं विषयसंरक्षणं चेति द्वन्द्वः । ततो द्वन्द्वसमासः । लिङ्गान्यस्योत्सन्नबह्वज्ञानामरणदोषाः । तत्र हिंसानन्दादीनां चतुर्णा प्रकाराणामन्यतमभेदेऽनवरतमविश्रान्त्या प्रवर्तमानस्य बहुकृत्वः सञ्चितदोष उत्सन्नशब्दवाच्यः । यथोत्सनकालान्तरमुपचितमिति । तथा हिंसानन्दादिषु चतुर्ध्वपि प्रवर्तमानस्याभिनिविष्टान्तःकरणस्य बहुदोषता अज्ञानदोषता तेष्वेव हिंसादिषु अधर्मकार्येष्वभ्युदयकार्यबुद्धिव्यपाश्रयस्य चैकतानविधानावलम्बितसंसारमोचकस्येव भवति । अथवा नानाप्रकारेषु हिंसानन्दायुपायेषु प्रवर्तमानस्य प्रचण्डक्रोधाविष्टस्य महामोहाभिभूतस्य तीववधबन्धसंक्लिष्टाध्यवसायस्य नानाविधदोषता, पाठान्तरव्याख्यानं तृतीयविकल्पस्य । तुयेदोषस्तु मरणावस्थायामपि हिंसानन्दादिकृतः खल्पोऽपि पश्चात्तापो यस्य नास्ति तस्यामरणान्तदोषतेति ॥ ३६॥ 'विरतेऽपि' इति ङ-पाठः । २ 'चरित्रं' इति ङ-पाठः। ३ 'प्रमोदात्' इति हु-पाठः। ४ भाष्यस्य रौटायानस्य ५'हिंसादिषु' इति च-पाठः। विवरण समुपलभ्यतेऽनन्तरसत्रटीकायाम्। ३४ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy