________________
२६६ तत्त्वार्थाधिगमसूत्रम्
[ मध्यायः ९ ___ आर्तरौद्रे व्याख्याते । सम्प्रति धर्मध्यानव्याख्यावसरः। तच्च सभेदं सखामिकमाख्यायतेधर्मध्यानस्य चातु- सूत्रम्-आज्ञा-पाय-विपाक-संस्थानविचयाय धर्ममप्र
मिनश्च मत्तसंयतस्य ॥९-३७॥
धर्मध्यानस्य चातुविध्यं तत्स्वा
भा०-आज्ञाविचयाय अपायविचयाय विपाकविचयाय संस्थानविचयाय च स्मृतिसमन्वाहारो धर्मध्यानम् । तदप्रमत्तसंयतस्य भवति ॥ ३७ ॥ किश्चान्यत्
.टी०-आज्ञादीनां कृतद्वन्द्वानां विचयशब्देन सह षष्ठीसमासः। आज्ञादीनां विचयःपर्यालोचनम्। विचयशब्दः प्रत्येकमभिसम्बध्यते । आज्ञाऽपायविपाकसंस्थानविचयशब्दात तादर्थं चतुर्थी । धर्मशब्दो व्याख्यातः। अप्रमत्तसंयतस्येति स्वामिनिर्देशः। तत्राज्ञासर्वज्ञप्रणीत आगमः । तामाज्ञामित्थं विचिनुयात्-पर्यालोचयेत्-पूर्वापरविशुद्धामतिनिपुणामशेषजीवकायहितामनवद्यां महार्थो महानुभावां निपुणजनविज्ञेयां द्रव्यपर्यायप्रपञ्चवतीमनाथनिधनां " इच्चेइयं दुवालसंगं गणिपिडगं न कयाइ णासी" इत्यादि (नन्दी सू०५८) वचनात् । सत्र प्रबायाः परिदुर्बलत्वादुपयुक्तेऽपि सूक्ष्मया शेमुष्या यदि नावैति भूतमर्थ सावरणज्ञानत्वात् । यथोक्तम्
" नहि नामानाभोग-च्छद्मस्थस्येह कस्यचिन्नास्ति ।।
ज्ञानावरणीयं हि, ज्ञानावरणप्रकृति कर्म ॥१॥"-आर्या तथाप्येवं विचिन्वतोऽवितथवादिनः क्षीणरागद्वेषमोहाः सर्वज्ञा नान्यथाव्यवस्थितमन्यथावयन्ति भाषन्ते वाऽनृतकारणाभावात् । अतः सत्यमिदं शासनमनेकदुःखगहनात् संसारसागरादुत्तारकमित्याज्ञायां स्मृतिसमन्वाहारः। प्रथमं धर्मध्यानमाज्ञाविचयाख्यम् । ___ अपायविचयं द्वितीयं धर्मध्यानमुच्यते । अपाया-विपदः शारीर-मानसानि दुःखानीति पर्यायास्तेषां विचयः-अन्वेषणमिहामुत्र च रागद्वेषाकुलितचेतोवृत्तयः सत्त्वा मूलोतरप्रकृतिविभागार्पितजन्मजरामरणार्णवभ्रमणपरिखेदितान्तरात्मानः सांसारिकसुखप्रपञ्चेष्ववितृप्तमानसाः कायेन्द्रियादिष्वास्रवद्वारप्रवाहेषु वर्तमाना मिथ्यात्वाज्ञानाविरतिपरिणतिभिर्निवृत्ताः । प्रातिपदिकात् तादर्थे चतुर्थीबहुवचनम् । हिंसायै हिंसाथ हिंसाप्रयोजनं रौद्रं भवति ध्यानम् । एवमनृताय स्तेयाय विषयसंरक्षणाय चेति वाच्यं रौद्रमित्युक्तं निर्वचनं प्राक् । अविरतश्च १ छाया
इत्येतद् द्वादशाङ्ग गणिपिटक न कदापि नासीत् ।
२.बिचित्रता' इतिच-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org