________________
सूत्रं ३७ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
२६७
देशविरतश्च कृतद्वन्द्वौ स्वामिनौ रौद्रध्यानस्य निर्दिष्टौ षष्ठीद्विवचनेन । अविरत देश विरतयोस्तु रौद्रध्यानमेतावस्य ध्यातारावित्यर्थः । एतदेव भाष्यकारो विवृणोति - हिंसार्थमित्यादिना । स्पष्टमेव तादर्थ्यं दर्शयति । " प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा " ( अ० ७, सू० ८ ) तच्च सश्वव्यापादनोद्बन्धपरितापनताडनकरचरणश्रवणनासिकाऽधरवृषणशिश्नादिच्छेदनस्वभावं हिंसानन्दम् । तत्र स्मृतिसमन्वाहारो रौद्रध्यानम् । ये च जीवव्यापादनोपायाः परस्य च दुःखोत्पादनप्रयोगांस्तेषु च स्मृतिसमन्वाहारो हिंसानन्दमिति प्रथमो विकल्पः ।
प्रचलरागद्वेषमोहस्य अनृतप्रयोजनवत् कन्याक्षितिनिक्षेपापलापपिशुनासत्यासद्द्भूतघातामिसन्धानप्रवणमसदभिधानमनृतं तत्परोपघातार्थमनुपरततीव्ररौद्राशयस्य स्मृतेः समन्वाहारः । त्रैवं दृढप्रणिधानमनृतानन्दमिति ।
स्तेयार्थ स्तेयप्रयोजनमधुनोच्यते । तीव्र सङ्केशाध्यवसायस्य ध्यातुः प्रचलीभूतलोभप्रचा राहितसंस्कारस्य अपास्तपरलोकापेक्षस्य परस्वादित्सोरकुशलः स्मृतिसमन्वाहारः । द्रव्यहरणोपाय एव चेतसो निरोधः प्रणिधानमित्यर्थः ।
विषय संरक्षणार्थं चेति चतुर्थो विकल्पः । चशब्दः समुच्चये । विषयपरिपालनप्रयोजनं च भवति रौद्रं ध्यानम् । विषमिव यान्ति विसर्पन्ति परिभुज्यमानाः । विषयशब्दस्य पृषोदरादित्वात् संस्कारः । अथवा 'पिञ् बन्धने' ( पा० धा० १४७८ ) भोक्तारं विशेषेण विविधं वा सिन्वन्ति - बनन्तीति विषयाः - शब्दादयः । तत्साधनानि च चेतनाचेतनव्यामिश्रवस्तूनि विषयशब्दवाच्यानि । विषीदन्ति वा प्राणिनो येषु परिभुञ्जानास्ते विषयाः । यथोक्तं ( प्रशमरतौ श्लो० १०७ ) -
निष्पादनम्
" यद्यपि निषेव्यमाणा, मनसः परितुष्टिकारका विषयाः । किम्पाकफलादनवद्, भवन्ति पश्चादतिदुरन्ताः ॥ " आर्या
विषयाणां च संरक्षणमुक्तं परिग्रहेष्वंप्राप्तनष्टेषु काङ्क्षाशोकौ प्राप्तेषु रक्षणमुपभोगे चावितृप्तिः । इत्थं च विषयसंरक्षणाहितक्रौर्यस्य ग्लेच्छमलिम्लुचाग्निक्षेत्रमृद्दायादिभ्यः समुदितायुधस्यानायुधस्य वा रक्षतः तीव्रेण लोभकषायेणानुरक्तचेतसः तद्गतप्रणिधानस्य तत्रैव स्मृतिसमन्वाहारमाचरतो विषयसंरक्षणानन्दम् रौद्रं भवति ध्यानम् । तच्चैतदविरतस्वामिकम् । तौ च पूर्वोक्तलक्षणौ । तयोरेव च भवत्येतत् प्रमत्तसंयतादीनामिति । रौद्रध्यायिनः तीव्रसंक्लिष्टाः कापोर्तनीलकृष्णलेश्यास्तिस्रस्तदनुगमाच्च नरकगतिमूलमेतत् । पर्याप्तमादाय कर्मजालं दुरन्तं
१' ये च व्यापादनो ' इति उ-पाठः । २ ' प्रसंगा' इति च पाठः । ३ ' ष्वप्राप्तनष्टेषु' इति च पाठः । ४' स्येव त (?) प्रमत्त ' इति ग-पाठः । ५ 'संक्केशाः' इति ङ-पाठः । ६' नीललेश्या ' इति ङ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org