________________
२६८
तवााधिगमसूत्रम्
[अभ्यायः ९ नरकादिगतिषु दीर्घरात्रमपायैर्युज्यन्ते । केचिदिहापि कृतवैरानुबन्धाः परस्परमाक्रोशवधबन्धाघपायभाजो दृश्यन्ते क्लिश्यन्ते इत्यतः प्रत्यवायप्रायेऽस्मिन् संसारेऽत्यन्तोद्वेगाय स्मृतिसमन्वाहारतोऽपायविचयं धर्मध्यानमाविर्भवति ।
तृतीयं धर्मध्यानं विपाकविचयाख्यमुच्यते-विविधो विशिष्टो वा पाको विपाकः-- अनुभावः । अनुभावो रसानुभवः। कर्मणां नरक-तिर्यङ्-मनुष्या-ऽमरभवेषु तस्य विचयः-अनुचिन्तनं मार्गणं तदर्पितचेताः । तत्रैव स्मृतिं समन्वाहृत्य वर्तमानो विपाकविचयाध्यायी भवति । ज्ञानावरणादिकमष्टप्रकारं कर्म प्रकृति-स्थित्य-ऽनुभाव-प्रदेशभेदमिष्टानिष्टविपाकपरिणामं जघन्यमध्यमोत्कृष्टस्थितिकं विविधविपाकम् । तद्यथा-ज्ञानावरणाद् दुर्मेधस्त्वम् । दर्शनावरणाचक्षुरादि
... वैकल्यं निद्रायुद्भवश्च । असवद्याद् दुःखं, सद्वद्यात् सुखानुभवः । मोहनीकर्माष्टकस्य .
स्थ याद् विपरीतग्राहिता चारित्रविनिवृत्तिश्च । आयुषोऽनेकभवप्रादुर्भावः । फलानि
' नाम्नोऽशुभप्रशस्तदेहादिनिवृत्तिः। गोत्रादुच्चनीचकुलोपपत्तिः । अन्तरायादलाभ इति । इत्थं निरुद्धचेतसः कर्मविपाकानुसरण एव स्मृतिसमन्वाहारतो धयं भवति ध्यानमिति ॥
संस्थानविचयं नाम चतुर्थं धर्मध्यानमुच्यते-संस्थानम्-आकारविशेषो लोकस्य द्रव्याणां च। लोकस्य तावत् तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकं स्थालमिव च तिर्यग्रलोकमूर्ध्वमधोमल्लकसमुद्गम् । तत्रापि तिर्यग्लोको ज्योतिय॑न्तराकुलः । असङ्ख्येया द्वीप-समुद्रा वलयाकृतयो धमा-ऽधमो-ऽऽकाश-पुद्गल-जीवास्तिकायात्मका अनादिनिधनसनिवेशभाजो व्योमप्रतिष्ठाः क्षितिवलयद्वीपसागरनरकविमानभवनादिसंस्थानानि च । तथाऽऽत्मानमुपयोगलक्षणमनादिनिधनमर्थान्तरभूतं शरीराद् , अरूपं कारमुपभोक्तारं च स्वकृतकर्मणः शरीराकारं, मुक्ती विभागहीनाकारम् । ऊर्ध्वलोको द्वादशकल्पा असकलसकलनिशाकरमण्डलाकृतयो नव ग्रैवेयकाणि पञ्च महाविमानानि मुक्ताधिवासश्च । अधोलोकोऽपि भवनवासिदेवा नारकाधिवसतिः । धर्माऽधर्मावपि लोकाकारौ गतिस्थितिहेतू, आकाशमवगाहलक्षणं, पुद्गलद्रव्यं शरीरादिकार्ये, इत्थं संस्थानस्वाभाव्यान्वेषणार्थं स्मृतिसमन्वाहारो धर्मध्यानमुच्यते । पदार्थस्वरूपपरिज्ञानं तत्त्वावबोधस्तत्वावबोधाच क्रियानुष्ठानं तदनुष्ठानान्मोक्षावाप्तिरिति । तदेतदप्रमत्तसंयतस्य भवति धर्मध्यानं प्रमत्तसंयतस्थानाद् विशुद्धयमानाध्यवसायोअमत्तस्थानमाप्नोति । यथोक्तम्
" निर्माता एव तथा, विशोधयोऽसङ्ख्यलोकमात्रास्ताः।
तरतमयुक्ता या अधि-तिष्ठन् यतिरप्रमत्तः स्यात् ॥१॥"-आर्या १'चारित्रेतिनिवृत्तिश्च' इति ङ-पाठः। २: 'धर्म्यध्यानं' इति ङ-पाठः। ३ 'तत्राधातुखगलक' इति स-पाठः। ४ 'देवनार' इति हु-पाठः। ५'स्थान एव नरतच्छमाणकामाप्नोति' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org