________________
सूत्रे ३८ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
२६९
अतो विशुद्धाद्धायां वर्तमानोऽप्रमत्तसंयतस्तस्य च भगवतो धर्मध्यानादितपोयोगैः कर्माणि क्षपयतो विशोधिस्थानान्तराणि आरोहतः ऋद्धिविशेषाः प्रादुर्भवन्त्यणिमादयः । उक्तं हि" अवगाहते च स श्रुत - जलधिं प्राप्नोति चावधिज्ञानम् । मानसपर्यायं वा, विज्ञानं वा कोष्टादिबुद्धिर्वा ॥ १ ॥ - आर्या चारणवैक्रियस-पधा [व]द्यावापि लब्धयस्तस्य । प्रादुर्भवन्ति गुणतो, बलानि वा मानसादीनि ॥ २ ॥ "
अत्र च श्रेणिप्राप्त्यभिमुखः प्रथमकषायान् दृष्टिमोहत्रयं चाविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतम उपशमश्रेण्याऽभिमुख्यादुपशमयति, क्षपकश्रेण्याभिमुख्योत् क्षप यति । यथोक्तम्
"
“ क्षपयति तेन ध्यानेन ततोऽनन्तानुबन्धिनचतुरः । मिथ्यात्वं संमिश्र, सम्यक्त्वं च क्रमेण ततः ॥ १ ॥ - आर्या क्षीयन्ते हि कषायाः, प्रथमास्त्रिविधो ऽपि दृष्टिमोहश्च । देशयतीयतसम्यग् - दृगप्रमत्तप्रमत्तेषु ॥ २ ॥ पाणिग्राहारींस्तान्, निहत्य विगतस्पृहो विदीर्णभयः । प्रीतिसुखमपक्षोभः, प्राप्नोति समाधिमत्स्थानम् ॥ ३ ॥” –,, इति ॥ ३७ ॥
17
किञ्चान्यदित्यनेन स्वाम्यन्तरं सम्बध्नाति–
सूत्रम् — उपशान्तक्षीणकषाययोश्च ।। ९ - ३८ ॥
भा०—–उपशान्तकषायस्य क्षीणकषायस्य च धर्म ध्यानं भवति ॥ ३८ ॥ किश्वान्यत्
टी० – चशब्दः समुच्चये । कषायशब्दः प्रत्येकमभिसम्बध्यते । उपशान्ताः कषाया यस्यासावुपशान्तकषायः एकादशगुणस्थानवर्ती । क्षीणाः कषाया यस्य स क्षीणकषायः । भस्मच्छन्नाग्निवदुपशान्ताः निरवशेषतः परिशटिताः क्षीणा विध्मातहुताशनवदनयोश्च उपशान्तक्षीणकषाययोरप्रमत्तसंयतस्य च ध्यानं धर्मं भवति । तत्रोपशान्तक्षीणकषायस्वरूपनिर्ज्ञानाय अधस्तनं गुणस्थानत्रयमवश्यंतया प्ररूपणीयम्, अन्यथा तदपरिज्ञानमेव स्यादिति । अप्रमत्तस्थानादसङ्ख्येयानि विशोधिस्थानान्यारुह्यापूर्वकरणं प्रविशति । समये समये स्थिति - घात- रसघातस्थितिबन्ध-गुणश्रेणि-गुणसङ्क्रमणकरणमपूर्वं निर्गच्छतीत्यपूर्वकरणम् । अप्राप्तपूर्वकत्वाद् वा १ भिमुख' इति ङ-पाठः । २ ' यतायतेन सम्यग् ' इति च पाठः ।
•
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org