________________
२७० तत्त्वार्थाधिगममूत्रम्
[ अध्यायः १ संसारे तदपूर्वकरणम् । न तत्र कस्याश्चिदपि कर्मप्रकृतेरुपशमः क्षयो वा । उपशमनाभिमुख्यात् तत्पुरस्कारादुपशमकः क्षपणार्हत्वाच्च क्षपक इति । उक्तं च
" स ततः क्षपकश्रेणिं, प्रतिपद्य चरित्रघातिनीः शेषाः । क्षपयन् मोहप्रकृतीः, प्रतिष्ठते शुद्धलेश्याकः ॥१॥-आयो प्रविशत्यपूर्वकरणं, प्रस्थित एवं ततोऽपरं स्थानम् ।।
तदपूर्वकरणमिष्टं, कदाचिदप्राप्तपूर्वत्वात् ॥२॥" -" ततोऽप्युत्तरोत्तरविशोधिस्थानप्राप्त्या अनिवृत्तिस्थानं भवति । परस्परं नातिवर्तन्ते इत्यनिवृत्तयः । परस्परतुल्यवृत्तय इत्यर्थः । सम्परायाः कषायास्तदुदयो बादरो येषां ते कादरसम्परायाः । अनिवृत्तयश्च ते बादरसम्परायाश्च त इत्यर्थः। ते उपशमकाः क्षपकाय । तत्र नपुंसकस्त्रीवेदषट्नोकषायादिक्रमान्मोहप्रकृतीरुपशमकः शमयति
"अणदसणपुंसगइत्थिवेयछक्कं च पुरसवेयं च । दो दो एगंतरिए, सरिसे सरिसं उवसमेइ ॥१॥"-आर्या
-आवश्यकनियुक्तौ गा० ११६ क्षपको निद्रानिद्रादिउदय(यादित्रय?)क्षयात् त्रयोदशनामकर्मक्षयाचाप्रत्याख्यानावरणादि कमायाकनपुंसकस्त्रीवेदक्रमाच क्षपयति । उक्तं च
" अथ स क्षपयति निद्रा-निद्रादित्रयमशेषतस्तत्र ।। नरकगमनानुपूर्वी, नरकगतिं चापि कार्येन ॥१॥-आर्या सूक्ष्मस्थावरसाधा-रणातपोद्योतनामकर्माणि । तिर्यग्गतिनाम तथा, तिर्यग्गत्यानुपूयों च ॥२॥ -" चतुरेकद्वितीन्द्रिय-नामानि तथैव नाशमुपयान्ति। तिर्यग्गतियोग्यास्ताः, प्रकृतय एकादशप्रोक्ताः ॥३॥-, अष्टौ ततः कषायान् , पण्डकवेदं ततस्ततः स्त्रीत्वम् ।। क्षपयति पुंवेदे सङ्-क्रमय्य षण्णोकपायांश्च ॥४॥ -, पुंस्त्वं क्रोधे क्रोध, माने मानं तथैव मायायाम् । मायां च तथा लोभे, स क्षपयति सङ्कमय्य ततः॥५॥-,
१ छाया
अनदर्शनपुंसकत्रीवेदषट्कं च पुरुषवेदं च ।
द्वी द्वौ एकान्तरितौ सदृशे सदृशं उपशामयति ॥ २' पूर्व्याच ' इति ग-पाठः, 'पूर्वी च ' इति च-पाठः। ३ पुवेदो' इति -पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org