________________
सूत्र २]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
२९५
भा० - मिथ्यादर्शनादयो बन्धहेतवोऽभिहिताः ( पृ० १२१ ) । तेषामपि तदावरणीयस्य कर्मणः क्षयादभावो भवति संम्यग्दर्शनादीनां चोत्पत्तिः । " तत्त्वार्थश्रद्धानं सम्यग्दर्शनं " ( अ० १ सू० २ ), 66 तन्निसर्गाद्विगमाद् वा " (अ० १, सू० ३ ) इत्युक्तम् ॥
टी० - मिथ्यादर्शनादय इत्यादि भाष्यम् । प्रागभिहिता मिथ्यादर्शनादयस्तेषामपि मिथ्यादर्शनादीनां बन्धहेतूनां तदावरणीयस्य कर्मणः क्षयादभावो भवति । मिथ्यादर्शनं अज्ञानविशेषः । ज्ञानावरणीयेन कर्मणा ज्ञानमेवाच्छादितं सदज्ञानमुच्यते । अन्यथा व्यवस्थितान् जीवादिपदार्थान् अन्यथा - वैपरीत्येन प्रतिपद्यते, अत आह- तदावर णीयस्य कर्मणः क्षयादात्यन्तिकात् तस्य मिथ्याज्ञानस्य यदावरणं तदभावान्मिथ्यादर्शनाभावः । नाप्यविरतिप्रमाद - कषाया- दर्शनावरणमोहक्षयात् योगनिरोधकाले च योगनिमित्तोऽप्यपैति बन्धः । इत्थं बन्धहेत्वभावे सति निर्जरणमुपचितस्य कर्मणोऽन्त्यकाले समस्ति । सम्यग्दर्शनज्ञानावरणानां चोत्पत्तिः प्रागभिहितानामुपलक्षयति- “तत्त्वार्थश्रद्धानं सम्यग्दर्शनं " (अ० १ सू०२) " तन्निसर्गादधिगमाद् वा" (अ० १ सू० ३) इत्युक्तैव न पुनरपि व्याख्यायते । अथवा सर्वमेतत् पूर्वमुक्तम् ।
भा०-- - एवं संवरसंवृतस्य महात्मनः सम्यग्व्यायामस्याभिनवस्य कर्मणः उपचयो न भवति ।
टी० - एवं संवरसंवृतस्येत्यादि । एवम् उक्तेन प्रकारेण बन्धहेत्वसम्भव एव संवरस्तेन संवृतस्य- स्थगित सकला स्रवद्वारस्य महात्मनः परमातिशयसम्पन्नस्य सम्यग्व्यायामस्यसम्यक्रियानुष्ठायिनः छद्मस्थस्य सयोगिकेवलिनश्थ निरुद्धसकलयोगस्य च अभिनवस्यापूर्षकर्मणः उपचयो - बन्धो न भवति ॥
भा०- - पूर्वोपचितस्य च यथोक्तै र्निर्जराहेतुभिरत्यन्तक्षयः । ततः सर्वद्रव्यपर्यायविषयं पारमैश्वर्यमनन्तं केवलं ज्ञानदर्शनं प्राप्य शुद्धो बुद्धः सर्वज्ञः सर्वदर्शी जिनः केवली भवति । ततः प्रतनुशुभचतुः कर्मावशेषः आयुःकर्मसंस्कारवशाद् विहरति ॥ २ ॥ ततोऽस्य
टी० – पूर्वोपचितस्य प्राम्बद्धस्य क्षयो यथोक्तस्तपोऽनुष्ठानादिभिर्निर्जराहेतुभि रात्यन्तिको घातिकर्मक्षयः, इतरस्तु भवधारणीयक्षयः । ततो घातिकर्मक्षयात् समनन्तरमेव समस्तद्रव्यपर्यायविषयमित्यनेनैतावदेव ज्ञेयमिति सूचयति । परं - प्रकृष्टमैश्वर्यं विभूतिः परम्असाधारण ईश्वरत्वं ऐश्वर्ये अनन्तमपर्यवसानत्वादनुच्छेदित्वात् केवलम् - असहायं मत्यादि - रहितं ज्ञानं च दर्शनं च प्राप्य - लब्ध्वा शुद्धो धोतोऽपनीतसकलकर्ममलः । बुद्ध इति कर्तरि १ 'सम्यग्दर्शनज्ञानावरणानां' इति ग-पाठः । २
" अपगत ' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org