________________
२९६ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १० निष्ठा । बुध्यतेरकर्मकत्वात् सुप्तविबुद्धवल्लोके प्रयोगदर्शनादकर्मकत्वम् । बुध्यत इति बुद्धा, ज्ञानस्वभाव इत्यर्थः । केवलज्ञानेन सर्व जानीत इति सर्वज्ञः । केवलदर्शनेन सर्व पश्यतीति सर्वदर्शी । रागद्वेषमोहजिज्जिनः । केवली केवलज्ञानदर्शनसम्भवात् । तत उत्पत्रकेवलज्ञानः प्रतनूनि-स्वल्पानुभावानि शुभविपाकानि च प्रायश्चत्वारि कर्माण्यवशेषाणि यस्य वेद्या-ऽऽयुनर्नाम-गोत्राणि स चायुषः कर्मणः संस्कारवशात्, प्रतिक्षणमनुवृत्तिः संस्कारः, तदशाद विहरति भव्यजनकुमुदवनबोधनाय शीतरश्मिरिव कदाचिद् ध्याति विहरति तिष्ठनपि वा। विविध रजो हरतीति विहरति ॥२॥
ततोऽस्य विहरत उक्तेन विधिना आयुष्ककर्मपरिसमाप्तावितराण्यपि त्रीणि कर्माणि क्षीयन्ते । अत:--
सूत्रम्-कृत्स्नकर्मक्षयो मोक्षः॥ १०-३॥
टी०-कृत्स्नं सम्पूर्ण निरवशेष ज्ञानावरणाद्यन्तरायपर्यवसानमष्टविधं मूलप्रकृतिवाच्य, उत्तरप्रकृतीनां तु द्वाविंशत्युत्तरं शतम् । एतत् कृत्स्नं कर्म तस्य क्षय:-शाटः आत्मप्रदेशेभ्योऽपगमः । कर्मराशेर्मोक्षः, आत्मनः स्वात्मावस्थानमिति ॥
भा०-कृत्स्नकर्मक्षयलक्षणो मोक्षो भवति ।
टी-कृत्स्नकर्मक्षयलक्षण इत्यादि भाष्यम् । कृत्स्नकर्मक्षयो लक्षणं यस्य मोक्षस्य । कृत्स्नकर्मविमुक्त्या आत्मा मुक्त इति लक्ष्यते । स एव मोक्षः सकलकर्मविमुक्तस्य ज्ञानदर्शनोपयोगलक्षणस्यात्मनः स्वात्मन्यवस्थानं मोक्षः, न पुनरात्माभाव एव । परिणामिनो निरन्वयनाशे न तेदुपपत्तिदृष्टान्तौ परिणामित्वादेव ज्ञानाद्यात्मा न सोऽभावः । स च कर्मणामपगमः क्रमेणामुनेति दर्शयति___ भा०-पूर्व क्षीणानि चत्वारि कर्माणि पश्चाद् वेदनीय-नाम-गोत्रा-ऽयुष्कक्षयो भवति । तत्क्षयसमकालमेवौदारिकशरीरवियुक्तस्यास्य जन्मनः प्रहाणम् । हेत्वभावाचोत्तरस्याप्रादुर्भावः । एषाऽवस्था कृत्स्नकर्मक्षयो मोक्ष इत्युच्यते॥३॥
किश्चान्यत्
दी-केवलज्ञानोत्पत्तेः प्राक्-पूर्व मोहनीयज्ञानदर्शनावरणान्तरायाख्यानि चत्वारि घातिकर्माणिक्षीणानि । ततः केवलज्ञानोत्पत्तिः पश्चादूघेदनीय-नाम-गोत्रा-ऽयुष्कक्षयो भवतीति । केवलज्ञानोत्पादात् पश्चादनीयादीनि चत्वारि कर्माणि क्षयं प्रतिपद्यन्ते भवधारणीयानि । तत्र का प्रकृतिः क गुणस्थाने क्षीणेति प्रपञ्चेन प्रदर्श्यते-अविरतसम्यग्दृष्टि-देशयति-प्रमत्ताप्रमत्तस्थानानामन्यतमस्थाने मोहनीयप्रकृतयः सप्त क्षीणाः, अनन्तानुबन्धिनश्चत्वारः सम्यक्त्व-मिथ्यात्व-तदुभयानि च । अतोऽनिवृत्तिस्थाने मोहनीयप्रकृतयो विंशतिः क्षीणा,
तदुत्पत्ति' इति -पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org