________________
सूत्रं ४ ] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२९७ नामकर्मप्रकृतयश्च त्रयोदश, दर्शनावरणप्रकृतयश्च तिस्रः। क्रमेणानेनाप्रत्याख्यानाः क्रोधादयश्चत्वारः, प्रत्याख्यानावरणाः क्रोधादयश्चत्वारः, नरकगतिः, नरकगत्यानुपूर्वी, तियेग्गतिः, तिर्यग्गत्यानुपूर्वी, एक-द्वि-त्रि-चतुरिन्द्रियजातयः, आतपं, उद्योतं, स्थावरं, सूक्ष्म, साधारणं च । निद्रानिद्रा प्रचलाप्रचला स्त्यानर्द्धिः। ततो नपुंसक-खीवेदौ हास्य-रत्य-रति-शोक-भय-जुगुप्साः
पुरुषवेदश्च संज्वलनक्रोधमानमाया इति सूक्ष्मसम्परायस्थाने चरमसमये कस्मिन् गुण- संज्वलनलोभः क्षीणः। ततः क्षीणकषायस्थाने निद्रा-प्रचले वे द्विचरमस्थाने कस्याः प्रकृतः भय समये क्षीणे । चरमसमये तु प्रकृतयश्चतुर्दश क्षीणाः-ज्ञानदर्शनावरण
विनानि पञ्च-चतुः-पञ्चभेदानि । अयोगिकेवलिनो द्विचरमसमये नामप्रकतयः पश्चचत्वारिंशत् क्षीणाः । ताश्चेमाः-देवगतिः, औदारिकादिशरीरपञ्चक, संस्थानषट्कं, अङ्गोपाङ्गत्रयं, संहननषट्कं, वर्ण-गन्ध-रस-स्पर्शचतुष्टयं, मनुष्यदेवगत्यानुपूव्यौं, अगुरुलघु, उपघात, पराघातं, उच्छ्वासः, प्रशस्तविहायोगतिः, अप्रशस्तविहायोगतिः, अपर्याप्त, प्रत्येकं, स्थिर, अस्थिरं, शुभ, अशुभ, दुर्भगं, सुस्वरं, दुःस्वरं, अनादेयं, अयश कीर्तिः, निर्माणम् । बाह्ये च द्वे अन्यतैरवेदनीये नीचैर्गोत्राख्ये क्षीणे तीर्थकराऽयोगकेवलिनश्चरमसमये द्वादश क्षीणाःअन्यतरवेद्य, उच्चैर्गोत्रं, मनुष्यायुः, नव च नामप्रकृतयः । तद्यथा-मनुष्यगति-पञ्चेन्द्रियजाति-त्रस-बादर-पर्याप्त सुभगा-ऽऽदेय-यश-कीर्ति-तीर्थकराख्याः । अतीर्थकराज्योगकेवलिनस्तु चरमसमये एता एवैकादश क्षीणाः तीर्थकरनामवर्जाः । मनुष्यायुश्चैकमेव बद्धं, न शेषाणीत्येकमेव गण्यते । एवं तत्क्षयसमकालमेव-सकलकर्मक्षयतुल्यकालमेव औदारिकशरीरवियुक्तस्यास्य मनुष्यजन्मना प्रहाणम्-उच्छेदः।बन्धहेत्वभावाचोत्तरजन्ममोऽप्रादुर्भावः। एषाऽवस्थितिः पूर्वजन्मन उच्छेद उत्तरजन्माप्रादुभोवः। केवल आत्मा ज्ञानाडुपयोगलक्षणः शुद्धः, इत्येषाऽवस्था कृत्स्नकर्मक्षयलक्षणो मोक्ष इत्याख्यायते । अवस्थाग्रहणमास्मानुच्छेदप्रतिपादनार्थमिति ॥ ३॥
किश्चान्यदित्यनेन तस्यामवस्थायां प्रष्टव्यशेषमाशङ्कते-"औपशमिक-क्षायिको भावी मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च" (अ० २, सू०१) इत्युक्तं जीवस्वतत्त्वम् । तत् किं तस्यामवस्थायां सकलमेव परिशटति उत नैव क्षीयते किञ्चित् आहोस्वित् किश्चन परिशटति किश्चिनेति सन्देहापनयनार्थमाह सूत्रकारः
सूत्रम्-औपशमिकादिभव्यत्वाभावाचान्यत्र केवलसम्यक्त्व-ज्ञानदर्शन-सिद्धत्वेभ्यः ॥ १०-४॥
-पाठः।
२'तरवेये' इति अ-पाठः ।
३ 'सुभगोदय' इति -पाठः।
१ 'रिकशरीर' इति ४ 'गम्यते' इति अ-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org