________________
२९४ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १० अभावोऽपि हि निमित्तं भवति यथा विपक्षे हेतुरभावद्वारेण गमकः । तत्क्षयादुत्पद्यत इति, घातिकर्मक्षयाज्जायत इत्यर्थः । अतस्तद्विगमलक्षणो गुणो हेतुः। "विभाषा गुणेऽस्त्रियां" (पा० अ० २, पा० ३, मू० २५) इति ॥
भा०-हेतौ पञ्चमीनिर्देशः। मोहक्षयादिति पृथकरणे क्रमप्रसिद्धयर्थम् । यथा--गम्येत पूर्व मोहनीयं कृत्स्नं क्षीयते। ततोऽन्तर्मुहूर्त छद्मस्थवीतरागो भवति । ततोऽस्य ज्ञानदर्शनावरणान्तरायप्रकृतीनां तिसृणां युगपत् क्षयो भवति। ततः केवलमुत्पद्यत इति ॥१॥
टी-हती पञ्चमीनिर्दशः । मोहक्षयादिति । सापेक्षे कर्मचतुष्टये व्यपेते निरापरणो जीवस्वभावो ज्ञानदर्शनलक्षणः सदा चकास्ति । तस्य च सापेक्षकर्मविगमो निमित्तं किरणमालिन इवातिबहलाभ्रपटलाच्छादितमण्डलस्य सङ्कुचितकिरणकलापस्य तदपगमे निरावरणसमस्तगभस्तिविस्तरणवद् विकसति ज्ञानं दर्शनं च । मोहक्षयादिति पृथक्करणं प्रतिविशिष्टक्रमप्रसिद्धयर्थम् । क्रमप्रसिद्धिः यथाऽऽगमे तत् प्राङ्मोहनीयक्षय एव सर्वस्य मुमुक्षोः । ततश्च मोहसागरमुत्तीर्यान्तमुहर्तमानं विश्राम्यति छद्मस्थवीतरागावस्थः । ततोऽस्य ज्ञानदर्शनावरणान्तरायक्षयो युगपदेव भवति । तत्समनन्तरमेव च केवलज्ञानं केवलदर्शनं चोपजनमासादयति । यथोक्तमागमे-वीसमिऊण नियंठो” इत्यादि "चरिमे नाणावरणं" इत्यादि ॥१॥
भा०-अत्राह--उक्तं (पृ० २९३) मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच केवलमिति । अथ मोहनीयादीनां क्षयः कथं भवतीति ? । अत्रोच्यते
टी-अत्राह-उक्तमित्यादिनोत्तरमूत्रं सम्बनाति । मोहक्षयात् केवलज्ञानो. त्पत्तिः। अथैषां मोहादीनां क्षयः कथं-केन प्रकारेण भवतीति । अयमभिप्रायः प्रश्नयतः-यावदपि सकषाययोगस्तावदपि कर्म सततं बध्नाति कषाययोगप्रत्ययम् । तच प्रतिक्षणं बधन् कथं क्षयं करोतीति ? । अत्रोच्यत इत्याह
कर्मपरिक्षये हेतू सूत्रम्---बन्धहेत्वभाव-निर्जराभ्याम् ॥ १०-२ ॥ ____टी-आत्मप्रदेशानां कर्मपुद्गलानां चान्योन्यानुगतलक्षणः क्षीरोदकवद् बन्धः । तस्य हेतुर्मिथ्यादर्शनादिपञ्चविधः । तस्य हेतोरभावादपूर्वकर्मागमो नास्ति । प्रथमबद्धस्य च निर्जरणं निर्जरा--आत्मप्रदेशेभ्यः परिशटनं कर्मणः । बन्धहेत्वभावश्च निर्जरा च बन्धहेत्वभावनिर्जरे ताभ्यां हेतुभ्यां कर्मपरिक्षयः ॥
१ तथा विपक्षे' इति उ-पाठः । २-३ छाया
विधामयित्वा निर्ग्रन्थः: चरमे ज्ञानावरणम् । ४ 'सन्तानं' इति ग-पाठः । ५ 'प्रदेशिनां ' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org