________________
अष्टमोऽध्यायः८
टी०-उक्त आस्रव इत्यादिना सम्बन्धमष्टमाध्यायस्याचष्टेअध्याय- भा०--उक्त आस्रवः । बन्धं वक्ष्यामः । तत्प्रसिद्धयर्थमिदसम्बन्धः मुच्यते
टी०-उक्तः-लक्षणविधानाभ्यामभिहितः "कायवामनःकर्म योगः" "स आस्रवः" (अ० ६, सू० १-२ ) इत्यारभ्य सामान्यतो विशेषतश्च । सम्प्रति प्रस्तावायातसम्बन्ध बन्धं वक्ष्याम इति । एतदुक्तं भवति–जीवाजीवास्रवन्धसंवरसूत्रक्रमेणास्रवो व्याख्यातः । तस्यानन्तरो बन्धः, स लक्षणविधानाभ्यां अधुना व्याख्यायते । तदेतदनेन प्रतिपादयति-तत्प्रसिद्धयर्थमिदमुच्यत इति । तस्य बन्धस्य प्रसिद्धिः-शब्दार्थनिरूपणं तत्प्रसिद्धयर्थ-तत्प्रसिद्धये तन्निरूपणार्थमुच्यते । इदमिति वक्ष्यमाणमिथ्यादर्शनादिपञ्चकम् ॥ नेनु बन्धं प्रस्तुत्य त तुकथनमसम्बद्धमिव लक्ष्यते ?, नासम्बद्धम् ; यतो नाकारणा कार्यनिष्पत्तिः । बीजाद्धि प्रसवोऽङ्करस्य, प्रथमतरं च कारणमुपाददते कार्यार्थिनः, बन्धश्च कार्य कारणं तस्य मिथ्यादर्शनादिपञ्चकं प्रसिद्धमेवेति इयत्ता निर्धार्यते कारणानामनेन सूत्रेणेत्याह
बन्धस्य सामा- सूत्रम्-मिथ्यादर्शना-विरति-प्रमाद-कषायन्य हेतुपञ्चकम् योगा बन्धहेतवः॥ ८-१॥
टी०-मिथ्यादर्शनादयो योगान्ताः पञ्च कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः । मिध्यादर्शनं-तत्त्वार्थाश्रद्धानलक्षणम् । अविरतिः-अनिवृत्तिः-पापस्थानेभ्यो विरतिपरिणामामावः । प्रमादस्त्विन्द्रियविकथाविकटनिद्रालक्षणः । कषायाः क्रोध-मान-माया-लोभाः अनन्तानुबन्धिप्रभृतयः । योगा मनोवाक्कायव्यापारस्वभावाः । बन्धः कर्मवर्गणायोग्यस्कधानामात्मप्रदेशानां चान्योन्यानुगतिलक्षणः क्षीरोदकादेवि सम्पर्को बन्धः । हेतुः निमित्तं कारणम् । बन्धस्य हेतवो बन्धहेतवः पञ्च मिथ्यादर्शनादयः । सामान्यहेतवश्चैतेऽवगतव्याः सर्वकर्मबन्धस्य । विशेषहेतवस्तु ज्ञानावरणादेयाख्याताः षष्ठे “ तत्प्रदोषनिहव."
१-२ 'उका मानवाः' इति क-ग-पाठः । ३ 'सम्बन्धस्य ' इति ङ-पाठः। ४ ' तत्प्रसिद्धार्थ तत्प्रसिद्धयर्थे। ति पाठः। ५.तदनुबन्ध इति-पाठः। 'सम्बन्धं इति -पाठः । 'कार्याविनाबन्धः' ति हु-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org