________________
१२२
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ८
( सू० ११ ) इत्यादिना सूत्रकलापेनेति । भाष्यकारस्तु पदविच्छेदेन पञ्चापि सामान्यप्रत्ययान् दर्शयति
भा०-- मिथ्यादर्शनमविरतिः प्रमादः कषाया योगा इत्येते पञ्च बन्धहेतवो भवन्ति ।
टी ० -- मिथ्या - अलीकमयथार्थ दर्शनं दृष्टिः- उपलब्धिरिति मिथ्यादर्शनम् । विरमणं 'विरति :- संयमः, न विरतिरसंयमो हिंसाद्यनिवृत्तिरिति । प्रमाद्यत्यनेनेति प्रमादः विकथादिकर्मग्रन्थाद् कः । कर्मप्रकृतिग्रन्थेषु तु प्रमादप्रत्ययः पृथग् नोक्तः । असंयमप्रत्ययेनैव संगृहीभिन्नता तत्वाच्चतुर्विध एव प्रत्ययस्तत्राधीतः, प्रमादप्रत्ययः मिथ्यादर्शना संयमकम्पयोगायः इह त्वाचार्येण मन्दबुद्धिप्रतिपत्तिहेतोः पृथगुपन्यस्तः । कष्यते यत्र शरीरमानसैर्दुःखैः स कषः - संसारः । पुंसि संज्ञायां घः" (पा० अ०३, पा०३, ०११८) तस्य आया - उपादानकारणानि कषायाः - क्रोधादयः । युज्यतेऽनेनेति योगः, नोकर्मणा योगद्रव्येणात्मेत्यर्थः । वीर्यान्तरायकर्मक्षयोपशमजनितेन वीर्यपर्यायेण युज्यत इति । इतिशब्दोऽवधारणार्थः । एत एव पञ्चविधा हेतवो भवन्ति सामान्यतः । तथेत्यादिना मिथ्यादर्शनादीनां स्वरूपं निरूपयति. -
7
भा०- तत्र सम्यग्दर्शनाद् विपरीतं मिथ्यादर्शनम् । तद् द्विविधम्-अभिगृहीतमनभिगृहीतं च ॥
टी० - तत्र तेषु पञ्चसु प्रत्ययेषु मिथ्यादर्शनस्वरूपं तावदिदम् सम्यग्दर्शनाद विपरीतं मिथ्यादर्शनमिति तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमुक्तं ( अ० १ सू० २ ) तस्मात् सम्यग्दर्शनाद् विपरीतलक्षणं मिथ्यादर्शनं तत्त्वार्थाश्रद्धानं, अयथार्थश्रद्धानमित्यर्थः । तद् द्विविधमित्यादि । तच्च मिथ्यादर्शनं द्विविधं - द्विप्रकारं अभिगृहीतमनभिगृहीतं 'वेति । चशब्दात् सन्दिग्धवचनम् । अनभिगृहीतमिथ्यादर्शनभेदः सन्दिग्धमिति साक्षात् मोपात्तम् ॥
भा०—तत्राभ्युपेत्या सम्यग्दर्शनपरिग्रहः अभिगृहीतमज्ञानिकादीनां श्रयाणां त्रिषष्ठीनां कुवादिशतानां, शेषमनभिगृहीतम् ॥
-
टी० – तत्रेत्यादि । तयोरभिगृहीवानभिगृहीतमिथ्यात्वयोरभिगृहीतप्रपञ्चोऽयम्-अ*युपेत्येति । मत्यज्ञानादि किमपि परिकलय्या सम्यग्दर्शन परिग्रहो मिथ्यादर्शनपरिग्रहस्तदभ्युपगम एतदेवैकं सत्यमिति प्रतिपत्तिरभिगृहीत मिध्यात्वम् । तदर्शनेऽनेकमेदमित्याहअज्ञानिकादीनामिति । अज्ञानमेषामभ्युपगमोऽस्तीत्यज्ञानिकाः, अथवा अज्ञानेन चरन्ति दीव्यन्ति वा अज्ञानिकाः, अज्ञानमेव पुरुषार्थसाधनमभ्युपयन्ति, न खलु तस्त्वतः कश्चित् सक१ सामान्यतः ' इति ङ-पाठ, 'सामान्येन ' इति तु क-पाठः । १ 'तदनेक' इति पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org