________________
१२३
सूत्र १] - स्वोपज्ञभाष्य-टीकालङ्कृतम् लस्यवस्तुनो वेदिताऽस्तीति। ते चाज्ञानपक्षावलम्बिनः सप्तपष्टिमेदाः केनचिद् विशेषेण भियमानप्रक्रिया सुगतशिष्यकाणामष्टादशनिकायभेदवनानात्वं प्रतिपद्यन्ते । एतद्दर्शनभ्रमितचेतसश्च शाकल्य-बाष्कल-कुथुमि-सात्यमुनि-राणायन-केठ-मध्यन्दिन-मोद-पिप्पलादबादरायण-स्विष्टकृद-नि-कात्यायन-जमिनि-वसुप्रभृतयः सूरयोऽसन्मार्गमेनं प्रथयन्ति ।
.. आदिशब्दात् क्रियावादिनोऽक्रियावादिनो वैनयिकाश्च सूचिताः । तत्र क्रिमहानिकादीनां
निा यावादिनोऽशीत्युत्तरशतभेदाः मरीचि-कुमार कपिलो-लक-गार्य-च्या
- प्रभूति-वादलि-माठर-मौद्गल्यायनप्रभृत्याचार्यप्रतीयमानप्रक्रियाभेदाः। अक्रियावादिनोऽपि चतुरशीतिविकल्पाः कोकुल-काण्ठेविद्धि-कौशिक-हरिश्मश्रु-मायनिक-रोमक-हारित-मुण्डा श्वलायनादिस्वरि(?)प्रथितप्रक्रियाकलापाः । वैनयिकास्तु द्वात्रिंशद्विकल्पाः वसिष्ठ-पराशर-जातूकर्ण-वाल्मीकि-रोमहर्षणि-सत्यदत्त-व्यासे. मपुत्रौ पमन्य-चन्द्रदत्ता-यस्थूलप्रभृतिभिराचार्यैः प्रकाशितविनयसाराः । एवमेतान् मिथ्यास्वभेदानभिधाय संकलयति भाष्यकदेकराशितया त्रयाणामित्यादिना भाष्येण । त्रिश ब्दः संख्यावचनः अन्यूनानधिकवृत्तिः। एवं शतशब्दोऽपि। कियतां शतानां ? त्रयाणामित्याह । क्रियता राशिनाऽधिकानाम् ? त्रिषष्टीनामित्याह, अभ्यधिकानां त्रिषष्टया । कुत्सिता वादिनः कुवादिनः,एकान्तग्रहास्तत्वाद् यत्किश्चित् प्रलपन्तीत्यर्थः । शेषमनभिगृहीतमिति मिथ्यात्वमभिसम्बध्यते । अभिगृहीतमिथ्यादर्शनम् यदन्यत् तत्त्वार्थाश्रद्धानं तदनभिगृहीतमिथ्यादर्शनम्, अनभिनिवेशमिथ्यात्वमित्यर्थः॥
भा०-यथोक्ताया पिरतेर्षिपरीताविरतिः।
टी-येन प्रकारेणाभिहिता सप्तमाध्यायादौ विरतिः हिंसानृतस्तेयानमपरिग्रहेभ्यो मनोवाक्कायैः कृतकारितानुमतिभिरुक्ता तस्या विरतेययोक्ताया विपरीता अविरतिः हिंसादिषु प्रवृत्तिः, असंयम इतियावत् ॥
भा०-प्रमादः स्मृत्यनवस्थामं कुशलेष्वनादरः योगाप्रमादस्य त्रैविण्यम् प्रणिधानं 'चेत्येष प्रमादः ॥
टी-मोक्षमार्गशैथिल्यमिन्द्रयदोषात् प्रमादः, प्रमाद इत्यनूद्य स्वरूपमाचष्टे-स्मरणं स्मृतिः पूर्वोपलब्धवस्तुविषया तस्या अनवस्थान-भ्रंशः । विकथादिव्यग्रचित्तत्वादिद विधायेदं कर्तव्यमिति नाध्येति । कुशलेष्वनादर इति स्मरतोऽपि कुशलानाम्-आगमविहितानां क्रियानुष्ठानानां अनादरः-अनुत्साहः, अप्रवृत्तिरित्यर्थः । योगदुष्पणिधान
'कवमध्य.' इति छ-पाठः। २ दितिकायन-' इति छ-पाठः । ३ 'विस्वरि' इति च-पाठः। ४ 'वैष प्रमादा' इति घ-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org