________________
१२४ सस्वार्थाधिगमसूत्रम्
[अध्यायः ८ चेति । योगाः कायादिन्यापारास्तान् दुष्टेन प्रणिधानेनार्तध्यानभाजा चेतसा समाचरति । पशब्दः समुच्चयार्थः । इत्येष प्रमाद इति निगमनार्थ पुनः प्रमादग्रहणम् । एष त्रिप्रकार: प्रमादो भवति ॥
भा०-कषाया मोहनीये (अ०८, सू. १०) वक्ष्यन्ते ॥ योगस्त्रिविधा पूर्वोक्तः ॥
टी०- कषाया मोहनीये वक्ष्यन्त इति । उक्तनिर्वचनाः कषाया मोहनीये कर्मणीहैवाध्याये उपरिष्टाद् वक्ष्यन्ते प्रपञ्चतः सप्रमेदाः । योगस्त्रिविधः पूर्वोक्त इति । मनोयोगो नाग्योगः काययोग इति त्रिविधः-त्रिप्रकारः पूर्वमुक्तः षष्ठेऽध्याये ।
एवमेते पश्च सामान्यप्रत्ययाः सर्वकर्मबन्धहेतव इत्यर्थः । एते च प्रत्ययाश्चतुर्दशसु गुणस्थानेषु न सर्वे सर्वत्र भवन्ति, किं तर्हि १ योग्यत्वात् केचिदेव कचिद् भवन्तीति तद्भाव्यते-मिध्यादृष्टिस्थाने तावत् सर्वेऽपि प्रत्यया मिथ्यादर्शनादयः सम्भवन्ति आहारककायाहारककायअनदेखनाचत- मिश्रवजाः सवेप्रकृतीनामिति । तत उपरितनेषु त्रिषु गुणस्थानेषु सास्वाददशगुणस्थानेषु न-स यग्मिथ्याविरतसम्यग्दृष्ट्याख्येषु मिथ्यादर्शनवर्जिताः शेषप्रत्ययाः ।
योजना . कारणतां प्रतिपद्यन्ते कर्मबन्धस्य, आहारकद्वयवर्जिताः, सम्यग्मिथ्याहटिस्थानेषु मिश्रकार्मणयोगासम्भवः । अविरतसम्यग्दृष्टौ विस्ताविस्तसम्यग्दृष्टौ चानन्तानुवन्धिनो न सन्ति, पश्चमगुणस्थाने विरताविरतसम्यग्दृष्ट्याख्ये यः संयमासंयमः कषाययोगाः कषापाच त्रयो पन्धहेतवः, अप्रत्याख्यानावरणौदारिकमिश्रकामेणाहारकद्वयवर्जिताः, यत एषामुदयो नास्ति देशविरत इति । तत उपरितनगुणस्थानेषु पञ्चसु प्रमत्ताप्रमत्तसंयतस्थानयोरपूर्वकरणप्रविष्टानिवृत्तिबादरसम्परायसूक्ष्मसम्परायसंयतस्थानेषु च त्रिषु उपशामकक्षपकभेदभिनेषु कषाययोगप्रत्ययद्वयनिमिचो बन्धो भवति । विशेषस्तु प्रमत्तसंयतस्य संज्वलनकषायाश्चत्वारो नोकषायाः नवैवं त्रयोदश भवन्ति । योगास्तु पूर्वोक्तास्त्रयोदशैव । अप्रमत्सस्यापित एव, केवलं वैक्रियमिश्राहारकमिश्रवर्जिता एकादश योगा बन्धहेतवः । अपूर्वकरणप्रविष्टानामप्येत एवं वैक्रियाहारकद्वयवर्जिता योगा नव । कषायास्तु त्रयोदश बन्धहेतवः। अनिवृत्तिकरणप्रविष्टानां नव योगाः कषायाश्चत्वारः संज्व नाः वेदत्रयं च बन्धहेतवः । सूक्ष्मसम्परायस्थानवर्तिनां नव योगाः संज्वलनलोमश्च बन्धहेतवः । तत उपरितनगुणस्थानत्रये उपशान्तक्षीणकषायसयोगिकेवलिसंज्ञके योगप्रत्यय एव बन्धः, नान्यप्रत्यय इति । उपशान्तकषायस्थाने णकषायस्थाने च नव नव योगा बन्धहेतवः । सयोगिकेवलिस्थाने तु सप्त योगा, कारणो बन्ध इति ॥
योगश्च पञ्चदशप्रकारः । तत्र मनोयोगचतुर्धा सत्यासत्यसत्यासत्यासत्यामृषामेदतः। एवं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org