________________
१२५
भजना
२]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
वागपि चतुर्धा । काययोगस्तु सप्तप्रकार:-औदारिककाययोगः, औदायोगानां पञ्चदश
रिकमिश्रकाययोगः, वैक्रियकाययोगः, वैक्रियमिश्रकाययोगः, आहारकविधस्यम्
काययोगः, आहारकमिश्रकाययोगः, कार्मणकाययोगश्चेति ॥
भा०---एषां मिथ्यादर्शनादीनां बन्धहेतूनां पूर्वस्मिन् पूर्वस्मिन् बन्धप्रत्ययानां सति नियतमुत्तरेषां भावः । उत्तरोत्तरभावे तु पूर्वेषामनि
यम इति ॥१॥ टी.-एषां सामान्यप्रत्ययानां मिथ्यादर्शनादीनां भजनां दर्शयति-नावश्यतया यत्रैकप्रत्ययस्तत्रान्यैरपि भाव्यम् । कदाचिदेकस्मिन् सति सर्वे भवन्ति, कदाचिनेति । एषां पञ्चानामपि सामान्यप्रत्ययानां सूत्रक्रमसन्निवेशिनां बन्धनिमित्तानां पूर्वस्मिन्, पूर्वस्मिन् सतीति वीप्सया नियतमुत्तरेषां भाव इति प्रतिपादयति । सति मिथ्यादर्शनप्रत्ययेऽवश्यंभा. विनोऽविरत्यादयश्चत्वारः। सत्यामविरतौ त्रयः प्रमादादयः । सति प्रमादे कषाययोगौ। सन्सु कषायेषु योगा इति । योगप्रत्यय एव सति नेतरे चत्वार इत्यादि विपरीत भाव्यं यावत् न मिथ्यादर्शनप्रत्यय इत्येतदनेन प्रतिपादयति-उत्तरोत्तरभावे तु पूर्वेषामनियम इति । अविरतिप्रमादकषाययोगेषु सत्सु न मिथ्यादर्शनप्रत्ययः । योगकषायप्रत्यययोः सतो वश्यमितरे त्रय इति सुज्ञानमिति ॥१॥
एवमुपपादित विस्तरेण बन्धहेतौ इदमाशङ्कते-कथममूर्तस्यात्मनो हस्ताद्यसम्भवे सति आदानशक्तिविरहात् कर्मग्रहणमिति ? । उच्यते-इयमेव तावदस्थानाऽऽरेका प्रक्रियाऽनभिशस्य, केनामूर्तताऽभ्युपेताऽऽत्मनः १ कर्मजीवसम्बन्धस्यानादित्वादेकत्वपरिणामे सति क्षीरोदकवन्मूर्त एव कर्मग्रहणे व्याप्रियते । न च बाह्यहस्तादिकरणव्यापारादेयं घटादिवत् कर्म पौद्रलमपि सत्, किन्तु अध्यवसायविशेषाद् रागद्वेषमोहपरिणामाभ्यञ्जनलक्षणादात्मनः कर्मयोग्यपुद्गलजालश्लेषणमादानं, स्नेहाभ्यक्तवपुषो रजोलगनवदिति । एवंप्रकाराशङ्काव्यावृत्यर्थमिदमाहसूत्रम्-सकषायत्वाजीवः कर्मणो योग्यान पुद्गलानादत्ते ॥८-२॥
टी-कषायाः-क्रोधादयोऽनन्तानुबन्ध्यादिभेदाः । सह कषायैः सककमवाय षायाः तद्भावः सकयित्वं तस्मात् सकषायत्वात् । हेतौ पञ्चमी । हेत्व
र्थश्च कारणान्तरव्यावृत्तिः । पुनः कषायग्रहणं तीव्राद्याशयविशेषप्रतिपादनार्थम् उत्कृष्टस्थितिरसविशेषप्रतिपादनार्थं च । जीव इत्यात्मा का स्थित्युत्पत्तिव्ययपरिणतिलक्षणः । सति च कर्तृत्वे कर्मबन्धफलानुभवौ। क्रियत इति कर्माष्टप्रकारं वस्य योग्यानौदा
इत्यादि सुज्ञानमिति' इति च-पाठः ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org