SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १२६ तत्वार्थाधिगमसूत्रम् [ अध्यायः ८ । रिंका दिवर्गणास्वष्टासु ज्ञानावरणादि कर्मयोग्याननन्तानन्तप्रदेशस्कन्धांश्चतुःस्पर्शान्, एतदेव च पुद्गलग्रहणेन स्पष्टयति । पूरणगलनलक्षणा: पुद्गलाः स्कन्धीभूतास्तानादत्ते, न पुनः क्रियामात्रं कर्म । कर्म हि पौद्गलमिष्टं रूपादिमदिति । आदत इति कर्मात्मप्रदेशेषु लगयति । करोतेः सर्वधात्वर्थवर्तित्वान्मिथ्यादर्शनाद्या वेशादार्द्रीकृतस्यात्मनस्तदाकारपरिणतिक्रिया कर्मलगनहेतुः । कर्ता चात्मा क्रियायाः, क्रियानिर्वर्त्य च कर्मेत्यमुमेवार्थं भाष्येण स्पष्टयति- सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते । कर्मणो योग्यानिति अष्टविधे पुद्गलग्रहणे कर्मशरीरग्रहणयोग्यानित्यर्थः । नामप्रत्ययाः सर्वतो योगविशेषादिति वक्ष्यते ( अ० ८, सू० २५ ) ॥ २ ॥ भा० डी० - सकषायत्वादित्यादिना । पदच्छेदोऽपि हि व्याख्याङ्गम् । अन्यथा वट वृक्षे तिष्ठतीत्यादिषु निश्चय एव न स्यात् । ततः सामान्यं न्यायमाश्रित्य भाष्ये पदच्छेदद्वारेणार्थमाचष्टे । मिथ्यादर्शनादयः कर्मबन्धस्याष्टप्रकारस्य सामान्य हेतवोऽभिहिता एव प्रथमसूत्रे, किमर्थं पुनः कषायग्रहणं भेदेनेति १ उच्यते - कपायाणां प्रधानहेतुत्वप्रतिपादनार्थम् । तत्रामर्षोऽप्रीतिर्मन्युलक्षणः क्रोधः। स्वगुणपरिकल्पनानिमित्तत्वात् अप्रणतिर्मानः पराभि सन्धाननिमित्तैरछद्मप्रयोगो माया । तृष्णापिपासाऽभिष्वङ्गास्त्रादलक्षणो लोभः । तत्रैककोनन्तानुबन्धी, संसारानुबन्धीत्यर्थः । एवमप्रत्याख्यानः प्रत्याख्यानावरणः संज्वलनश्चेति । त एते पापिष्ठा बन्धहेतवः संसार स्थितेर्मूलकारणं ऑजन्मजराभावलक्षणायाः कष्टतमाः प्राणिनामनपैराद्धवैरिणः । यथोक्तमार्षे ( दशवैकालिके अ० ८, उ०२, ०४० ) - "कोहो य माणो य अणिग्गहीया, माया य लोभो य पवड्डमागा । चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणन्भवस्स ॥ १ ॥ " इन्द्रवज्रा तथा - ""जं अइदुक्खं लोए, जं च सुहं उत्तमं तिहुयणंभि । तं जाण कसायाणं, बुड्डिक्खयहेउयं सव्वं ॥ २ ॥ " एतच्च सकषायत्वं हेतुत्वेनोपात्तम् । हेतुश्च धर्मिणो भवति, स च धर्मी जीव इत्याह । कषायपरिणामो हि परिणन्तुरात्मनो, न त्वपरिणामस्य सर्वगतस्याक्रियस्येति । यथाऽऽह - " जीवस्तु कर्मबन्धन - बद्धो वीरस्य भगवतः कर्ता । सन्तत्याऽनाद्यं च तदिष्टं कर्मात्मनः कर्तुः ॥ १ ॥ संसारानादित्वाद् बन्धस्यानादिता भवति सिद्धा । अत एव कर्म मूर्त नामूर्त बन्धकं हीष्टम् ॥ २ ॥ १ 'कर्मयोग्या ०' इति घ-पाठः । २' अष्टविध ० ' इति घ टी-पाठः । ३ ' निमित्ताशुद्ध प्रयोगो' इति पाठः । * ' आवजवी ( ? ) भावलक्षणयोः' इति ग-पाठः । ५ ' पराधं वैरिणः' इति च पाठः । ६ छाया- क्रोधश्व मानश्च अनिगृहीतौ माया लोभश्व प्रवर्धमानौ । चत्वार एते कृत्स्नाः कषायाः सिञ्चन्ति मूलानि पुनर्भवस्य ॥ ७ छाया -- यदतिदुःखं लोके यश्च सुखमुत्तमं त्रिभुवने । तदू जानीहि कषायाणां वृद्धिक्षयहेतुजं सर्वम् ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy