________________
सूत्र ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२१९ भा०-तथा जिहन्द्रियप्रसक्ता मृतहस्तिशरीरस्थस्रोतोवेगोढवायसवत् हेमन्तघृतकुम्भप्रविष्टमूपिकवत् गोष्ठप्रसक्तहदवासिकर्मवत् मांसपेशीलुभ
श्येनवत् बंडिशागतमांसगृद्धमत्स्यवचति ॥ तथा घाणेन्द्रियजिहादिविषयग्रस्ता
स्त प्रसक्ता ओषधिगन्धलुब्धपन्नगवम् पललगन्धानुसारम्पकवनां विडम्बनाः
चति ॥ तथा चक्षुरिन्द्रियप्रसक्ताः स्त्रीदर्शनप्रप्तङ्गादर्जुनकचोरबत् दीपालोकनलोलपतङ्गवद विनिपात मृच्छन्तीति चिन्तयेत् ॥ तथा श्रोत्रेन्द्रियप्रसक्तास्तित्तिरि कपोत-कपिलवत् गीतसङ्गीतध्वनिलोलमृगवद विनि. पातमृच्छन्तीति चिन्तयेत् । एवं हि चिन्तयन्नास्रवनिरोधाय घटत इत्यास्रवानुप्रेक्षा ॥७॥
टी०-तथेत्यास्रवान्तरेऽपि दोपदर्शनम् । सामयिकानि च वायसाधुदाहरणानि । बडिशो-गला तत्र मांसम् । तथेत्यपराम्रवगतदोपोदघाटनमुदाहरणद्वयेन । तथाऽपरत्रास्रवे दोषोपपादनम् । अर्जुनचोरः श्यामायां निवेशितदृष्टिर्निवनं गत इति सामयिकमेवाख्यानकम् । तथेत्ययमप्यास्रवः सदोष इति कथयति । तित्तिरः पञ्जास्थः तित्तिरीशब्दश्रवणादागतो
युयुत्सार्थी पाशेन बध्यते । एवं कपोत कपिञ्जलादेरपि, गीतमे रुकगीतमङ्गीतयो
या एव गार्याखेटके गायति, सङ्गीतकं तु वंशकांस्यादियुक्तम् । एवमेता
" नासवान दोपबहलाने चिन्तयेत् । एवं च परिचिन्तयन्नास्रवनिरोपायैव घटत इत्यास्रवानुप्रेक्षा ॥७॥
संवरानुप्रेक्षानिरूपणायाह
भा०-संवराश्च महाव्रतादीन् गुप्त्यादिपरिपालनाद गुणतश्चिन्तयेत् । सर्वे घेते यथोक्तास्रवदोषाः संवृतात्मानो भवन्तीति चिन्तयेत्। एवं यस्य चिन्तयतो मतिः संवरायैव घटत इति संवरानुप्रेक्षा ॥ ८॥
टी--संवराश्च महावतादीनित्यादि । आस्रवद्वाराणां पिधानमास्रवदोपपरिवर्जन संवरः । तांश्च संवरान् प्राणातिपातनिवृत्यादीन् गुप्त्यादिपरिपालनादिति । गुप्त्यादयः परिपालना:-परिपालका येषां महाव्रतादीनाम् । आदिग्रहणादुत्तरगुणपरिग्रहः । इतरत्रादिग्रहणात समितिग्रहणम् । तान् गुणतश्चिन्तयेत् । गुणा-उपकारिणस्तान् गुणान् इत्येवं चिन्तयेत् । सर्वे ह्यते इत्यादि गतार्थ भाष्यम् ॥ ८ ॥
निर्जराऽनुप्रेक्षास्वरूपावधारणमधुना मिरायाः पर्यायाः भा०-निर्जरा वेदना विपाक इत्यनर्थान्तरम् ।
१.हेमनत' इतिव-पाठः। २ बडिशामराद्ध.' इति घ-पाः। ३ 'लोक लोक ' इति घ-पाठ। ४ 'अर्जुन ' इति च पाठः। ५'पालना ' इति च पादः। ६ गुणवतः' इति ग पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org