________________
२२० तस्वार्थाधिगमसूत्रम्
[ अध्यापः ९. टी-निर्जरा घेदनेत्यादि । निर्जरणं निर्जरा आत्मप्रदेशेभ्योऽनुभूतरसकर्मपुद्गलपरिशंटना । निर्जराया एकार्थाविमौ वेदना बिपाक इति । तत्र वेदना अनुभवः तस्याः स्वादनं विपचन विपाका । कर्मपुद्गलानां उदयावलिकाप्रवेशेऽनुभूतरसानामुत्तरकालं परिशाटः। विपच्यमाना विपकाः परिशटन्ति । भा०–स विविधः-अबुद्धिपूर्वः कुशलमूलश्च। तत्र नरकादिषु कर्मफल
- विपाकोदयोऽबुद्धिपूर्वकस्तमवद्यतोऽनुचिन्तयेत् अकुशलानु
विपाकस्य वैविध्यम् बन्ध इति ॥
टी-स द्विविधः इति विपाकाभिसम्बन्धः । निर्जरया सहैकार्थत्वाद् । तद्वैविध्यप्रदर्शनायाह-अबुद्धीत्यादि । तत्राबुद्धिपूर्वः बुद्धिः पूर्वा यस्य कर्म शाटयामीत्येवंलक्षणा धुद्धिः प्रथमं यस्य विपाकस्य स बुद्धिपूर्वः न बुद्धिपूर्वोऽबुद्धिपूर्वः, तत्र तयोर्विपाकयोरयं तावदबुद्धिपूर्वः नरकतिर्य मनुष्यामरेषु कर्म ज्ञानावरणादि तस्य यत् फलमाच्छादकादिरूपं तद्विपाकः-तदुदयस्तस्मात् कर्मफलाद् विपच्यमानाद् यो विनिर्जरगलक्षणो विपाकः । सति तस्मिन् कर्मफले विपच्यमाने स भवत्यबुद्धिपूर्वकः। न हि तैस्तपः परीपहजयो वा नारकादिभिर्मनीषितः । तमेवंविधं विपाकमवद्यतः पापं संसारानुबन्धिनमेव चिन्तयेत्, नहि तादृशा निर्जरया मोक्षः शक्योऽधिगन्तु मिति । एतदेवाह-अकुशलानुबन्ध इति । यस्मादुपभुज्यापि तत् कर्मफलं पुनः संमृतावेव भ्रमितव्यम् ।
भा०-तपःपरीषहजयकृतः कुशलमूलः । तं गुणतोऽनुचिन्तयेत् शुभानुपन्धो निरनुबन्धो वेति । एवमनुचिन्तयन् कर्म निर्जरणायैव घटत इति निर्जेराऽनुप्रेक्षा ॥९॥
टी०---यः पुनः कुशलमूलो विपाकस्तपसा द्वादशविधेन परीषहजयेन वा कृतः सोऽवश्यंतयैव बुद्धिपूर्वकः । तमेवंविधं गुणत इति । गुणम्-उपकारकमेव चिन्तयेत् । पस्मात् स तादृशो विपाकः शुभमनुषध्नाति, अमरेषु तावदिन्द्रसामानिकादिस्थानानि अवाप्नोति । मनुष्येषु च चक्रवर्तिबलमहामण्डलिकादिपदानि लब्ध्वा ततः सुखपरम्परया मुक्तिमवाप्स्यतीति शुभानुबन्धो निरनुबन्धो वेति । वाशब्दः पूर्व विकल्पापेक्षः । तपःपरीषहजयकृतो विपाकः सकलकर्मक्षयलक्षणः साक्षान्मोक्षायैव कारणीभवतीति ॥ ननु च यदि धुद्धिपूर्वको देवादिफलः शुभानुबन्धो विपाकस्तत आगमेन सह विरोधः “नो इह लोगहयाए तवं अहिडेजा" (अ०९, उ०४, सू० ४) भण्यते, न मुमुक्षुणा देवादिफलमिष्टं, सहित(?) मोक्षार्थमेव घटते, यदान्तरालिकं फलं देवादि तदानुषङ्गिक, इक्षुवनसेके तृणादिसेकवत् ।
'परिशटनं' इति -पाठः। ४ 'देवादिकृतः' इति -पाठः।
२ 'वा निर्जरणक' इति ग-पाठः। ३ 'महितै' इति च-पाठः । ५ दशवैकालिकाख्येन। छाया-न इह लोकार्थ तपः अधितिष्ठेत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org