________________
सूत्र ७] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२२१ मनीषितं तु तेन तपःपरीषहजयाभ्यां मोक्षः प्राप्यः। तत्र या प्रवृत्तिस्तपसि परीषहजये वा सा बुद्धिपूर्विका विपाकहेतुरिति । तस्मादेवमनुचिन्तयन् कर्मनिर्जरणायैव घटते इति निर्जरानुप्रेक्षा ॥९॥
पश्चास्तिकायात्मकमित्यादिना लोकानुप्रेक्षास्वरूपं निरूपयति
भा०-पञ्चास्तिकायात्मक विविधपरिणाममुत्पत्तिस्थित्यन्यतानुग्रहप्रलय. युक्तं लोकं चित्रस्वभावमनुचिन्तयेत् । एवं ह्यस्य चिन्तयतस्तत्त्वज्ञानविशुद्धिभवतीति लोकानुप्रेक्षा ॥ १०॥
टी-पश्चास्तिकायात्मकमित्यादिना । पञ्चास्तिकाया धर्मा-ऽधर्माऽऽकाश-पुद्गलजीवाख्यास्ते आत्मानः-स्वरूपमस्येति, लोकमित्युपरिष्टाद् वक्ष्यति । विविधो-नानाप्रकारः परिणामो यस्येति, तमेवं विधपरिणामं दर्शयति-उत्पत्तिस्थितीत्यादि । उत्पत्ति िविधा
प्रतिक्षणवर्तिनी कालान्तरवर्तिनी च । प्रतिक्षणवर्तिनी च अविभाव्यान्त्यउत्पत्तेद्वैविध्यम् प्रलयानुमेया, प्रतिक्षणमन्यथाऽन्यथा चोत्पद्यन्ते परिणमन्ते भावा अस्ति
___कायाः । कालान्तरवर्तिनी मृद्रव्यं पिण्डाद्याकारेण मृद्भावं प्रेक्षीणमपहाय पिण्डादिरूपेण परिणमते । स्थितिः-अवस्थानं [ अस्तिकाय इति ] अस्तिकायरूपेण सर्वदा व्यवस्थानात् । धर्मास्तिकायादिव्यपदेशमजहतः ते सर्वदा व्यवतिष्ठन्ते वचनार्थपर्यायैः। भन्यता तूत्पत्तिस्थितिभ्यामन्यत्वं-विनाशः । सोऽपि द्विविधः-क्षणिक कालान्तरवर्ती च । विवक्षितक्षणाद् द्वितीयक्षणेऽन्यत्वमवश्यम्भावीत्यवस्थान्तरापत्तिरेव विनाशः, न निरन्वयः कचिदस्ति प्रलयः। स्थित्युत्पत्ती अनुग्रहकारिण्यौ सवानाम् । घटो हि समुत्पमस्तिष्ठंश्च जलाहरणधारणादिरूपेणानुगृह्णाति । प्रलयोऽपि कालान्तरभावी भवत्यनुग्राहको विनाशसंज्ञितः । कुण्डलार्थिनः कटकविनाशवत् । अत एव(भिः) उत्पत्त्यादिभिर्युक्तमुत्पत्यादिपरिणतिस्वभावं लोकं जीवाजीवाधारलक्षणं क्षेत्रम् । अत एव चित्रस्वभावमिति । चित्रो-नानाप्रकारः स्वभावः-स्वरूपं यस्य सुखदुःखप्रकर्षापकर्षरूपत्वात् पैचिच्याच कर्मपरिणतेः। एवं ह्यस्य चिन्तयतस्तत्त्वज्ञानविशुद्धिर्भवतीति लोकानुप्रेक्षा। एवम्उक्तेन प्रकारेण लोकस्वरूपमभिध्यायतस्तत्त्वेषु जीवाजीवादिषु पदार्थेषु विशुद्ध-निर्मल शङ्कादिदोषरहितं ज्ञानं भवति । यथा भगवद्भिरुक्तम् (आवश्यके )-"सन्ध(वाई) ठाणाई असासयाई" ति । न कचिदस्मिन् व्यावर्णितलक्षणे लोके किश्चित् स्थानमस्ति शाश्वत यंत्रात्यन्तिकी निर्वृतिरात्मनो भवतीत्याह । परलोकनिरपेक्षस्य च मोक्षायैव चेतोवृत्तिरनुगुणा भवतीति लोकानुप्रेक्षा ॥
१'उत्पत्तिस्थित्यनन्तानुग्रहप्रलययुक्त' इति ङ-पाठः। २ ‘प्रकीर्णमय' इति ङ-च-पाटः। ३ छायासर्वाणि स्थानानि अशाश्वतानि इति। ४ 'यत्रीत्पत्तिकी' इति घ-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org