________________
सूत्र १६ ]
स्वोपज्ञभाष्य टीकालङ्कृतम् खण्डम् । आदिग्रहणाद् द्विदलवस्त्रकम्बलीपरिग्रहः । अन्यतममिति उक्तानां मध्ये यथालाभमास्तीर्य विरचय्य प्रतनुनिद्रेणानुष्ठेयः । अथवा स्वशक्त्यपेक्षया स्थानादिविधिनाऽनुष्ठेयः,तदाहस्थानमूर्खलक्षणं कायोत्सर्गाख्यम्, वीराणां संहननयुक्तानामासनं जान्वधोभागतुल्यमश्चिकादिनिविष्टस्यापनीताधोमश्चिकस्य तथाऽवस्थानं वीरासनमुच्यते । निषद्या समस्फिनिवेशनं पर्यवन्धादि । वाशब्दो विकल्पार्थः । स्थानादि वा शयनं वा । अन्यतममिति यदेवाभ्यस्तम्, आस्थायेति परिगृह्य । धर्मस्तु श्रुतचरणभेदाद् द्विधा । तत्र श्रुतधर्मो वाचनाप्रच्छनाऽनुप्रेक्षास्वाध्यायधर्मोपदेशलक्षणः, चरणधर्मो महावताणुव्रतोत्तरगुणभेदस्तद्विषयं जागरणं जागरिका। धर्मे जागरिका । न चातरौद्रविकथाद्याश्रिता जागरिकेति । "इच्छा" (पा० अ०३, पा०३, मू० ३०१ ) इत्यत्रसूत्रे जागर्तेरिकारो वेत्युक्तं जागर्या जागरेतिरूपद्वयसिद्धयर्थम् । तत्र जागरैव जागरिका । स्वार्थे कविधानम् । एवमयं पौषधोपवासः सम्यग् गृहिणाऽनुष्ठेय इति ॥
___ भा०--उपभोगपरिभोगव्रतं नाम अशनपानखाद्यस्वाद्यगन्धमाउपभोगपरिभोग- -
रभागः ल्यादीनां प्रावरणालङ्कारशयनासनगृहयानवाहनादीनां बहुसाव्रतस्य लक्षणम्
- वद्यानांच वर्जनम(ल्पसावधानाम पिपरिमाणका(क)रणमिति॥ टी०-उपभोगपरिभोगशब्दार्थों व्याख्यातौ । तच्च द्विविधं व्रतं भोजनकर्मविषयस्वात् । तत्राशनान्मांसानन्तकायादेर्निवर्तते, पानतो मद्यमधुसुरामांसरसकादेः, खाद्याद् बहुबीजसत्वौदुम्बरफलादेः, स्वाद्यान्माक्षिकान्मधुप्रभृतेः। एवं यथासम्भवमन्यदपि सचित्तमाहारजातं परिहरति प्रतिदिवसम् । कर्मतः पञ्चदशकादानान्यङ्गारकरणादीनि अल्पसावद्यजीवनोपायाभोंवे तत्प्रवृत्तौ ज्ञानावरणादिकर्मणां हेतुत्वादानात् कर्मादानादीन्युच्यन्ते । तानि चाङ्
गारवनशकटभाटकस्फोटनदन्तलाक्षारसविषकेशवाणिज्यायन्त्रपीडानिलोपञ्चदश कर्मादानानि छनदवदानसरोहदादिपरिशोषणासतीपोषणकर्माणि । प्रदर्शनं चैतद बहसावद्यानां कर्मणां, न परिगणनमित्यागमार्थः ॥ ननुच भाष्यकृता न कर्मादानग्रहणमकारि साक्षात् । सत्यम्, आदिग्रहणात् तु व्याख्येयानि, प्रवचने तथोपदिष्टत्वात् । गन्धमाल्यादीनामिति । आदिशब्दात् पटवासधूपप्रकर्षताम्बूलग्रहणम् । समासतो यानि बहुसावद्यानि तानि यावज्जीवं वजेनीयानि, अल्पसावद्यानां तु कर्मणां कार्यम् । शेषाणि प्रत्याख्येयानीति ॥
भा०-अतिथिसंविभागोनाम न्यायागतानां कल्पनीयाना. अतिथिसंविभागस्य.
गस्य मन्नपानादीनां [च द्रव्याणां देशकालश्रद्धासत्कारक्रमोपेतं पर
याऽऽत्मानुग्रहबुद्धया संयतेभ्यो दानमिति॥१६॥किश्चान्यदिति
व्याख्या
१'महाव्रतोत्तर' इति उ-पाठः। २'आच्छादनप्रावरणा' इति घ-पाठः। ३धनुश्चिद्वितोऽयं घ-पाठः । ४'भावतः प्रवृत्तो' इति -पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org