________________
सूत्र ८]
स्वोपक्षमाष्य-टीकालङ्कृतम् एकेन्द्रियादीनां भावमनस्तु विद्यत एवात्मस्वभावत्वाद, द्रव्यरूपमन्तःकरणमन्तरेण स्पष्टमपटु पटलावृतनेत्रवत् , संज्ञिपञ्चेन्द्रियाणामन्तःकरणसहितानि पश्चापीन्द्रियाणि विद्यन्ते । पट्वी चैषां प्रज्ञा । कायवाङ्मनोयोगत्रयभाजश्च प्राणातिपाताद्यनुतिष्ठन्ति, प्रकर्षतोऽप्रतिष्ठाननरकगमनयोग्यम् । असंज्ञिपश्चेन्द्रियास्तु मनोरहितत्वात् प्रथमपृथिवीनरकगमनयोग्यमेव प्रकर्षतो निर्वर्तयन्ति । एकद्वित्रिचतुरिन्द्रियास्तु नरकगमनयोग्यं कर्म नवोपाददते, ते हि नरकगतिवर्जसंसारपरिभ्रमणयोग्यमेवावा निवर्तयन्ति कायवाग्योगिनः । काययोगिनश्च कषायविशेषापेक्षमप्रकृष्टं च । फलस्य च प्रकर्षापकर्षों अन्तःकरणकपायापेक्षौ । संज्ञिपञ्चेन्द्रियाणामारम्भहननव्यापादितकालमेदेन प्राक प्रतिपादितौ । “तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरण विशेषेभ्यस्तद्विशेषः" इत्यत्र (अ० ६, सू० ७) सूत्रे । कचित् कायादित्रयसमिधानेऽप्यन्यतमस्यैव व्यापारः। तन्दुलमत्स्यस्य मनोव्यापार एव केवलः। कचिद् वाङ्मनोव्यापारात् प्राणातिपातावद्यम् । यथा
"वर्ष देव! कुणालायां, दिनानि दश पञ्च च। मुसलस्थूलधारामि-येथा रात्रौ तथा दिवा ॥१॥"-अनु०
-आवश्यकवृत्तौ अनादेशस्थाने अत्रात्यन्तराशयाभ्यां श्रमणकाभ्यां लोककदर्थनामसहमानाभ्यां, कष्टतपःसमावर्जित
देवतया तद्वचनाभिप्रायानुरोधात् तथा वृष्टं यथा तत्र स्थावरजङ्ग रागद्वेषमोहहेतु- मानां प्राणिनां गन्धोऽपि नासीदिति स एष प्राणातिपातः प्रमत्त
योगलक्षणो भूयः सरागद्वेषमोहप्रवृत्तिकः संक्षेपादवसेयः । रागप्रप्रतिकस्तावच मदकरिदशनचित्रकचर्ममांसाद्यर्थो मृगयाक्रीडार्थो वा स्वजीवितमित्रादिपरिरक्षणाय वा।मायालोमौ च रागः, द्वेषजो वैरनियोतनादिकः परशुरामसुभूमादेरिव, क्रोधमानौ च द्वेषः । अज्ञानजो याज्ञिकानां पश्वादिविशसनेन स्वर्गमिच्छतामवनिपतीनां च दृष्टः । परिरक्षणमात्राभिलाषिमन्वादिप्रणीतशास्त्रानुसारिप्रवृत्तीनामप्रेक्षापूर्वकारिभिर्यदेकैरुत्फाल्यमानानां तस्करपारदारिकाद्युल्लम्ब(छ)नशूलिकाभेदक्रकचपाटनच्छेदनादिकः । तथा संसारमोचकानां धर्मबुद्धचा संसारात् प्राणिनो मोचयतां परोपपातिवृश्चिकाहिगोनसव्यन्तरादीनां च वधान किल पुण्यावाप्तिरिसिप्रवृत्तीना, हरिणविहगपशुमहिषादयश्च भोगिनामुपभोगार्थी इति तद्धनने नास्ति दोष इत्येवं प्रवृत्तानामशेषमेव मोहविजृम्भितमिति ॥
सम्पति हिंसायाः पर्यायशब्दानाचष्टे सूरिरसंमोहार्थम् , आगमे च सर्वव्यवहारद शेनात् । आह च
"क्रियाकारकभेदेन, पर्यायकथनेन च । वाक्यान्तरेण चैवार्थः, भोवद्धिहितो मतः ॥१॥"-अनु०
कावधारमोट
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org