________________
व्याख्या
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ७ यः कचित् प्रमत्त इति । कर्तुश्च करणान्यभिन्नानि भिन्नानि च द्विराकाराणि । तत्र योगेन्द्रियवीर्यज्ञानकरणान्यभेदेन वर्तन्ते गमने निर्वत्ये पादवत् , कृपाणदात्रासिधेनुकादीनि भेदेन व्यवस्थितानि । करणकारकाविनाभूता च कर्तृशक्तिरित्यभिन्नाः कायादयः कारणत्वेन निर्दिश्यन्ते,
कृतद्वन्द्वाः कायादयः तेषां योगस्त एव वा योगः । यथैव ह्यात्मा कायादियोग. भिर्युक्तस्तथा कायादिक्रिययाऽपीति । अतस्तद्यापारोऽपि योगः। युज्यतेऽसा
वाऽऽत्मनेतियोगः सप्तचतुश्चतुर्भेदः दुर्बलवृद्धयष्टिकल्पः कर्तुरात्मनः, तदाश्रयश्च वीर्यान्तरायक्षयोपशमजनितो वीर्यपरिणामः, योगः कायादिचेष्टा । यथाऽऽह
"जोगो विरियं थामो, उच्छाह परक्कमो तहा चेहा।
सत्ती सामत्थं चिय, जोगस्स हवन्ति पन्जाया ॥१॥"-आर्या तथा अपर आह
"मनसा वाचा काये-न वाऽपि युक्तस्य वीर्यपरिणामः ।
जीवप्रयोगजनितः, स योगसंज्ञो जिनैदृष्टः ॥ १॥"-आर्या कायः-शरीरं औदारिकादिभेदपुद्गलजालात्मप्रयोगनिवृत्तं प्रधानातिशयोपकारितया साधकतमत्वात् करणम्, एतदवष्टम्भात् कर्ता आत्मा गमनवल्गनलङ्घनावरोहणकूर्दनास्फोटनविपासनादिक्रियाः परिनिष्पादयति । वागपि वोक्याापत्तिपरिगृहीतभाषावर्गणायोग्यपुद्गलस्कन्धविविधवर्णपदवाक्यलक्षणा कचिदनभिलक्षितवर्णविवेकात्मनोऽभिलषणीयपदार्थप्रकाशने साधकतमत्वात् करणतया व्याप्रियते । मनोपि मनोवर्गणायोग्यस्कन्धाभिनिवृत्तमशेषात्मप्रदेशवृत्ति द्रव्यरूपं मर्नुते साधकतमत्वात् करणमात्मनः । एवमेभिः कायवाङ्मनोयोगैः समुदितैदोभ्यामेकेन वा प्राणानां सम्भवतामिन्द्रियादीनां व्यपरोपणम्-आत्मनः पृथक्करणमाचरति यो द्रव्यभावाभ्यां भावतो वापि प्रगत्तः सा हिंसेति । समुदिताश्च प्रतीता एव निर्वतकाः, प्रत्येकं तु कथं निर्वतकाः प्राणातिपातावद्यस्येति भाव्यते, भूदकतेजोमारुतवनस्पतीनां काययोग एवैकः । स्पर्शनाख्यं चेन्द्रियमेकमेव, न तु वाङ्मनोयोगी स्तः । तेषां च कायव्यापारजनित एव प्राणातिपातः । द्वित्रिचतुरिन्द्रियाणां असंज्ञिपश्चेन्द्रियाणां
च कायवाग्योगाविन्द्रियद्वयं च स्पर्शनरसनाख्यं द्वीन्द्रियाणां, .एकेन्द्रियादीना स्पर्शनरसनघ्राणानि त्रीन्द्रियाणां, स्पर्शनरसनघाणचक्षंषि चतुरिहिंसायां योगविचारः १२
न्द्रियाणां, असंज्ञिनां पश्चापीति । सर्वेषामन्तःकाणं नास्ति द्रव्यरूपम् ।
१.स्तयेव वा' इति ख-पाठः । २'वाऽऽत्मनो' इति ग-पाठः। ३ छाया
योगो वीर्य स्थाम उत्साहः पराक्रमः तथा चेष्टा । .
शक्तिः सामर्थ्य चैव योगस्य भवन्ति पर्यायाः॥१॥ ४. वारपर्याप्ति' इति हु-पाठः। ५.दभिलक्षित.' इति उ-पाठः। ६'मनो' इति हु-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org