________________
सूत्र ८ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
६९
च कारयतो नाधर्मप्रसङ्गः । न सग्निमन्येन स्पर्शयन् प्रयोजयिता दह्यत इति । यदप्यभिहितम् - अचेतनानां च काष्ठादीनां गृहपाते प्राणवधात् पापप्रसङ्ग इति, इष्टमेवैतत् । यतो येषां जीवानां काष्ठादिशरीरं तदा वाच्युत्सृष्टं भावतस्तेषामविरतिप्रत्ययमवद्य मिष्यत एवेति न काचिद् बाधा || यश्वोक्तम् न च दृष्टान्तमात्रात् स्वपक्षसिद्धिरिति एतद्व्ययुक्तम् । अजानानस्यापि प्रमत्तस्य प्राणातिपातादवद्यमिति प्रस्तुत्याग्निरुदाहृतः । प्रयोगस्तु - अजानानस्य प्राणवधक्रियाऽवद्यहेतुः प्रमत्तव्यापारनिवृत्तत्वात् तृतीयविकल्पप्राणवधक्रियावदिति । यश्वावहेतुर्न भवति स प्रमत्तव्यापार निर्वृत्तोऽपि न भवति, यथा प्रथम विकल्प इति । यच्चाशंक्योक्तं - स्वरसभङ्गुरेषु भावेषु क्षणिकेषु परकीयप्रयत्न निरपेक्षेषु वायुप्राणस्योत्क्रान्तिः स्वयमेव भवति न परप्रयत्नेन विनाश्यते, वायुप्राणातिपातहेतुकत्वान्नाशस्य, किं तर्हि प्रयत्नः करोति? अनागतस्य क्षणस्योत्पत्तिं प्रतिबध्नातीति । एतद् प्यत्यन्तमयुक्तम् । अनागतस्त्वलब्धात्मलाभः क्षणो न तावदुत्पद्यते स चाभावस्तस्य कुतः प्रतिबन्धः १ असवरूपत्वात् शरशृङ्गस्येव । अतो नाभावः कर्तुं शक्यः । प्रतिबन्धाप्रतिबन्धौ च भावविषयौ । स्मर्तव्यं च प्राणातिपातलक्षणं स्वं सौगतेन - प्राणी यदि भवति प्राणिविज्ञानं चोत्पद्यते हन्तुर्न वा भावः प्राणी न च प्राणिसंज्ञा तत्र हेतुरिति वैखसिकप्रायोगिक विनाशभेदाच्च न सर्व एव निष्कारणो नाशः प्रागभूतात्मलाभादङ्कुरादिवत् हेतु मच्वात् तर्हि किसलयादिवद् विनाशोऽपि विनाशवानित्यनिष्टप्रसङ्गः । यदा विनाशशब्देनावस्थान्तरपरिणतिर्वस्तुनोऽभिधीयते तदा किमनिष्टम् ? । अत्रापि पूर्वावस्थोपमर्दमात्रं विनाशशब्दवाच्यम् । एवमपि न विनाशस्य विनाशे किञ्चित् कारणमुपलभामहे । प्रष्टव्यश्च पूर्वपक्षवादी - निष्कारणो विनाशः किमसन्नुत नित्य इति १ । असत्वे . विनाशस्य सर्वभावानां नित्यताप्रसङ्गः । अथ नित्यो विनाशः, कार्योत्यादाभावः, सर्वदा विनाशेन प्रतिबद्धत्वात् ॥ यश्च्चोक्तं - कायस्यैव सेन्द्रियस्य तज्जीवितेन्द्रियं व्यपदिश्यते न त्वन्यस्यात्मनोऽभावादिति तदप्यसमीचीनम् । यत एकस्थित वस्तुनिबन्धनाः सर्वेऽप्यनुभवस्मरणप्रत्यक्षानुमानार्थाभिधानप्रत्ययव्यवहाराः, स चैकः स्थितश्वात्मा । सति तस्मिन् पुरुषार्थप्रवृत्तिप्रतिपत्तिरिति । ननु चानुभवस्मरणादयः स्कन्धमात्रे विज्ञानमात्रतायां वा न विरुद्धा: । तत्र निरन्वयविनश्वरत्वात् स्कन्धानां विज्ञानस्य च सन्तानाभ्युपगमे सर्वमुपपअमिति, तत् न, परमार्थतस्तस्यास स्वात् । न चासत्यात्मनि तत्प्रणीतप्राणातिपातलक्षणविपयावधारणं शक्यं कर्तुम् । सञ्चिन्त्य परस्याभ्रान्तिमारणमिति भिन्नाः सचेतनादिलक्षणाः मारणावसानास्तत्र कस्य प्राणातिपातः किं सञ्चेतयितुः ? अथ यस्य पर विज्ञानमुभयस्याभ्रान्तिः १ अथ येन मारित इति १ । सर्वथा गृहीतशरणत्रया अध्यशरणा एव सौगता इत्येवं विचार्यमाणं सुगतशासनं निःसारत्वान युक्ति क्षमत इति ॥
प्रकृतमुच्यते-व्यवस्थितमिदं प्रमत्त एवं हिंसकः, नाप्रमत्त इति । सामान्येन कर्तृनिर्देशः
१' चाव्युत्सृष्टं ' इति इ-पाठः । २ ' हन्तुरिति ' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org