________________
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ७ तस्मादेन पदमेतत् वसुबन्धा(१)रामिषगृद्धस्य गृद्रस्येवाप्रेक्ष्यकारिणः । अयं पुनरप्रसङ्ग एव मूढेनोपन्यस्तः-शिरोलुश्चनाद्युपदेशे शास्तुः क्रुद्धस्येवाधर्मप्रसङ्ग इति, यतस्तत्राज्ञानादिप्रमादासंभवोऽत्यन्तमेव शासितरि ध्वस्तरागद्वेषमोहेनापि भगवता मुमुक्षूणां कर्मनिर्जरोपायत्वेन तपोदेशितं, कुतोऽवद्यप्राप्तिरप्रमत्तस्येति । अन्यदापि श्रद्धाशत्यादिगुणसमन्वितोऽप्रमत्तो गुणवते पात्राय ददाति न्याय्यं, साधूद्देशेनाकृताकारिताननुमतं गृहितोऽप्यागमानुवृत्त्या गृहाति, कुतस्तत्रावयेन योगः१, अन्नदायिनो दानकाल एव च कर्मनिजेरणादिफलाभिनिवृत्तेः । विसूचिका तु सुतरामविहिताचारपरिमितादिभोजिनोऽस्य कृतकर्मविपाक एवासाविति, नास्त्यणीयानपि दातुरप्रमत्तत्वाद् दोषः। अज्ञानं विसूचिकायाः प्रमाद इति चेद् दातुस्तत्र स्वानस्य दानकाल एव त्यक्तत्वात्, परगृहीतेन हि परव्यापत्तिः प्रमत्तस्य दोषवतीति । यच्चावाचि-मातुगर्भो दुःखहेतुर्मातापि गर्भस्य दुःखनिमित्तमित्युभयोkःखहेतुत्वादवद्येन योग इति, न, तदभिमतमेव जैनानां, तयोः प्रमत्तत्वात् । न चायमेकान्तः परदुःखोत्पादादवश्यंतयाऽवद्येन भवितव्यम् । अकषायस्य हि मुनेरपास्तसकलप्रमादस्य दर्शने सति प्रत्यनीकस्याशोत्पद्यते, तद्वयुत्सृष्टशरीरस्य वा व्यग्गत'सुनो दशेनेन न तहुःखनिमित्तमस्यापुण्यमापतति साधोः। द्रव्य मात्राधे चागमानुमारिणो भिषग्वरस्येव पादुःखोत्पादे सत्यपि नास्ति पापागमः, एवं परसुखोत्पादेनैकान्न इत्यन्याय्यम् । स्त्रीपुंमयोः संगमापादयतः सुखात्पादेऽप्यवद्येन योगः। कचित् परसुखोत्पादे पुण्यलेशनिजेरा वा। विहितानुष्ठायिनः साधोः क्षुत्पिपासावेस्याधाकमौदिदानेन एषणाविशुद्धन प्रासुकानपानदानेन वेति। यञ्चोक्तमग्निदृष्टान्तसामोद् वध्योऽपि अवत, वधक्रियासम्बन्धाद्धन्तवत् । यथा ह्यमिः पूर्व स्वाश्रयं दहतीन्धनादिकं, एवं वधक्रिया वध्यसम्बन्धिनी प्राक् तावद् वध्यमेवावयेन योजयति " कर्मस्था च भिदेः क्रिये" ति वचनात् , यथा भिनत्ति कुम्लं देवदत्त इत्येवं हन्ति प्राणिनमिति तदेतदसदित्यनया क्रियया कतेमवायिन्या कुमूलविदारणमुत्पाद्यते सा तु भिदिक्रिया विवक्षिता । तथा च यया कर्तृगनया हननक्रियया प्राणवियोजनं कर्मस्थं क्रियते सा विवक्षिता । ज्वलनोऽप्येतावता दृष्टान्तीकृतोऽप्रतिबद्धदहनस्वभावः स्पृश्यमानो बुद्धिपूर्वकमन्यथा वा दहत्येव । एवं प्राणातिपातोऽपि हि प्रमत्तेन प्रयत्नरहिन क्रियमाणः कर्तारमवश्यंतयाऽवद्येन योजयत्येवेति दृष्टान्तार्थः। अबुद्धिपूर्वकता च प्रमत्तता । तत्र कःप्रसङ्गो वध्यस्याधर्मेण ? । वधकसमवायिनी च हननक्रिया कत फलदायिन्येव । प्रमत्तस्याध्यवमायो बन्धहेतुः। न च वध्यस्यात्महनने प्रमत्तताध्यवसाय:. दृष्टान्त वर्मी चानेधो , तत्र कश्चिदेव धर्ममाश्रित्य दृष्टान्त उपन्यस्यते । अथ समस्तधर्मविवक्षया दृष्टान्तोपादान ततो न कश्चिदिष्टार्थसाधनं स्याद् दृष्टान्तः। विकल्पसमाधेयं, जातिरुपन्यस्ता वसबन्धु(१)वधेयेन, स्वाश्रयदाहित्वमनर्विशेषधर्मोऽस्ति । न तु वधक्रियायाः स्वाश्रयेऽवद्ययोग इष्टः, तस्मामामिदृष्टान्तात् साध्यसिद्धिरिति । एतेनैतदपि प्रत्युक्तम्-परेण
'गृहीतायाः' इति क-ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org