________________
६७
सत्र ८] स्वोपज्ञभाष्य-टीकालङ्कृतम् सञ्चिन्त्य । अथैवं मन्येथास्तेषामवद्येन योगो मिथ्याभिनिवेशात् समस्ति, एवं तर्हि रज्जुबुद्धया दन्दशूकं कल्पयतः कथं न हिंसा ?, अथोत्तरकालभाविनी प्राप्ततत्त्वज्ञानस्य संचेतना स्यान्मिथ्यादर्शनमेतत् तदिति, तुल्यमेव तत्सर्पच्छेदेऽपीति । अथ संशयहेतुत्वान्मिथ्यादर्शनमवद्यकारणं तर्हि निश्चितधियः सांख्यादेरिदमेव तत्त्वमिति नावा स्यात् । संसारमोचकगेलकतकयाज्ञिकप्रभृतीनां च प्राणिवधकारिणां धर्म इत्येवं संचेतयतामधर्मोऽयमित्येवं वा संचेतयतां नावचं स्यात् , अन्याभिसन्धित्वात् । अथैवं मन्येथाः-संचेतयन्त्येव ते प्राणिनो वयं हन्म इति, सत्यमेव तत्, किन्तु नैवं चित्तोत्पादो हन्यमानेष्वधर्मो भवतीति । संविद्रते च स्फुटमेवं सौगताः-प्रमादारम्भयोरवश्यंभावी प्राणवध इति । तथा बुद्धस्य ये शोणितमाकर्ष। यन्ति वपुषः सुगतोऽयमित्येवं विज्ञाय तेषामवीचिनरकगंतिकारणमानन्तयेकमयुद्धरबुद्धित्वादेव नस्यात्, इष्यते चानन्तर्यकं, अथ बुद्धोऽयमित्येवंविधबुद्धेरभावेऽपि संशयितस्याश्रद्दधतश्चासंचेतयतो भवेदानन्तर्यकम्, एवं सति मायासूनवीयानामप्यवद्येन योगः स्यात् । यतस्तेऽ'विदस्माहतामवनिदहनपवनजलवनस्पतयः प्राणिनः । अथैवमारेकया बुद्धोऽयमिति संज्ञानमात्रेण सं(सा?)ख्यादिरपि चिन्तयत्येव । एवं तर्हि संज्ञामात्रेण सञ्चेतयतः कल्याकारमपि शुद्धनामानं घ्नत आनन्तयेकं स्यात् । तथा मातापित्रद्वधस्तूपभेदानन्तर्येष्वपि योज्यम् । बालस्य किल पांसूनेव चेतयतोऽन्नमित्येवं वा चेतयतो बुद्धाय भिक्षादानोद्यतस्य पशुपुष्टी राज्यं फलत इति सुगतशासनविदां प्रतीतमेव । तदेवमसंचेतितवधो भ्रान्तिवधश्च प्राणातिपातायहेतुतया प्रायो। अन्यथा बहु त्रुट्यति बुद्धभाषितमिति । तथाऽऽत्मवधोऽपि जैनानामवद्यहेतुरेव विहितमरणोपायादृते शस्त्रोल्लम्बनामिजलप्रवेशादिभिः । तस्मादात्मनोऽप्यविधिवधोऽवद्यहेतुरिति यत्किञ्चित् परग्रहणमपीति । एवं सति कचित् कचिद् भावत एव प्राणातिपाताधवद्यमप्रतिष्ठाननरकगामि । तन्दुलमत्स्यस्येव । कचिद् द्रव्यभावाभ्यां प्राणातिपातावद्यं हिंसा मारकस्येवेति। प्रमादश्च द्वयोरपि विकल्पयोरन्वेत्यज्ञानादिलक्षणस्ततश्च प्रमत्तव्यापारेण परदारदर्शने वा भवत्येवावद्यम् अप्रमत्तस्य तु आगमानुसारिणो न भवति । यत आगमः
" हत्थपायपलिच्छिन्नं, कण्णनासविकप्पितं ।।
अवि वाससतं णारिं, दूरतो परिवजए ॥ १॥-अनु० चिंत्तभित्तिं ण णिज्झाए, णारी वा सुअलंकिदै । भक्खरंपिव दळूणं, दिहि पडिसमाहरे ॥ २ ॥"-अनु०
-दशवैकालिके ( अ०८, उ० २, सू० ५५, ५४). १ 'गलाकर्तयाज्ञिक०' इति ग-पाठः। २ 'गमन' इति ङ-पाठः । ३ 'विदन्त्यार्हता' इति ख-पाठः । ४ छाया
प्रतिच्छिन्नहस्तपादा विकल्पितकर्णनासिकाम् । अपि वर्षशतिकां नारी दूरतः परिवर्जयेत् ॥१॥ चित्रभित्ति न निरीक्षेत नारी वा स्वलकृताम् । भास्करमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत् ॥ २॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org