________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ७ "आयुरूष्माथ विज्ञानं, यदा कायं( याद् १ ) व्रजन्त्यमी ।
अपविद्धस्तदा शेते, यथा काष्ठमचेतनम् ॥१॥"-अनु० इति । आईताः पुनरबुद्धिपूर्वकमसञ्चिन्त्यापि कृतं प्राणातिपातं प्रतिजानते । अबुद्धिपूर्वादपिप्राणवधात् कर्तुग्धर्मो यथाऽनिस्पशोद् दाह इति । तेषां चैवमभ्युपयतां परदारदर्शनस्पर्शने च कामिन इव साधोरवद्यप्रसङ्गः साधुशिगेलुश्चने, कष्टतपोदेशने, च शास्तुः क्रुद्धस्येवाधर्मप्रसङ्गः। विषचिकामरणे वाऽन्नदायिनः प्राणवधः, मावगर्भस्थयोश्चान्योऽन्यदुःखनिमित्तत्वात् पापयोगः, वध्यस्यापि च वधक्रियासम्बन्धादमिना स्वाश्रयदाहवदधर्मप्रसङ्गः । परेण च कारयतो नाधर्मप्रसङ्गः । न ह्यग्निमन्येन स्पर्शयन् प्रयोजयिता दह्यते । अचेतनानां च काष्ठेष्टकादीनां गृहपाते प्राणिवधात् पापप्रसङ्गः । न च दृष्टान्तमात्रात् स्वपक्षसिद्धिरित्येवमनेकदोषसम्भवा
भावुद्धिपूर्वकं प्राणातिपातावद्यमस्तीति ॥ अत्रोच्यते जैनैः-प्राणाहिंसालक्षणे बौद्धमतखण्डनम् ।
- तिपाताधवद्येन प्रमत्तः एव युज्यते । प्रमत्तश्च नियमेन रागद्वेष
- मोहवृत्तिः । प्रमादपञ्चके च कषायप्रमादस्य प्राधान्यम् । कषायग्रहणेन मोहनीयकर्माशो मिथ्यादर्शनमपि संशयिताभिग्रहितादिभेदं पिशुनितं, रागद्वेषौ च विकथेन्द्रियासवप्रमादेष्वप्यन्वयिनौ । निद्राप्रमादः पञ्चविधोऽपि दर्शनावरणकर्मोदयादज्ञानस्वभावः, तदाकुलितचित्तो मूढ इत्युच्यते । रागद्वेषमोहाथात्मनः परिणामविशेषाः प्राणातिपाताधवद्यहेतवः सर्वैर्मोक्षवादिभिरविगानेनाभ्युपेयन्ते । सिद्धान्तविहितविधिना च परित्यागाकारणं शरीरादेर्ममत्वीकृतस्याविरतिः, अनिवृत्तिरात्मनः परिणतिविशेषः । साऽपि प्राणातिपातावद्यहेतुतया निर्दिष्टा भगवता भगवत्यादिषु । अतीतकालपरिमुक्तानि हि शरीरादीनि पुद्गलरूपत्वात् समासादितपरिणामान्तराणि तदवस्थानि वा यावदपि योगकरणक्रमेण त्यज्यन्ते भावतस्तावदपि भल्लितोमरकर्णिकाधनुर्जीवास्नायुशरवाजकीचकशलाकाद्याकारेण परिणतानि प्राणिनां परितापमवद्रावणं वा विदधति सन्ति पूर्वकस्य कर्तुरवद्येन योगमापादयन्ति । प्रतीतं चैतल्लोके-यो यस्य परिग्रहे वर्तमानः परमाक्रोशति हन्ति व्यापादयति वा तत्र परिग्रहीतुर्दोषस्तमपकारिणमपरित्यजतः ॥ न चानयेव युक्त्याऽवद्यक्षयहेतवः शरीरादिपुद्गलाः पुण्यहेतवो वा पूर्वकस्य कर्तुः पात्रचीवरदण्डकप्रतिश्रयाहारपरिणत्या तपस्विनामुपकारकत्वात् प्रसज्यन्ते, नैतदेवमवद्यमविरतिहेतुकम् । निर्जरा तु विरतिहेतुकैव । पुण्यं च विरतिहेतुकमेव भूयसा । नहि पापासवादनिवृत्तः पुण्येन कर्मनिर्जरणेन वा युज्यत इति । एषाऽप्यविरतिर्मोहमनेकभेदमजहती प्रमादमेवास्कन्दति ॥
प्रमत्तयोगाचप्राणातिपाताधवद्यमिति व्यवस्थिते यदुच्यते परेण-असश्चिन्त्य वा भ्रान्स्या वा मरणं नावद्यहेतुकमिति, अत्र प्रतिविधीयते-असश्चिन्त्य कुर्वतो यद्यवद्यासम्भवस्ततो मिथ्यादृष्टेरभावः सुगतशिष्याणाम् । यस्मान कश्चिन्मिथ्या प्रतिपद्यते प्रेक्षापूर्वकारी मिथ्येति
१'दमे स्वा.' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org