________________
सूत्र ८ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
६५
शरपातस्थानादपसृते सारङ्गे चेतसोऽशुद्धत्वादकृतेऽपि प्राणापहारे द्रव्यतोऽप्रध्वस्तेष्वपि प्राणिषु भावहिंसा भवत्येव हिंसा, हिंसारूपेण परिणतत्वात् काण्डक्षेपिणः, स्वकृतदृढायुष्यकर्मशेषादपसृतो मृगः पुरुषाकाराच्च, चेतस्तु हन्तुरतिक्लिष्टमेवाती व्यापादकम् । तथा तस्यानवदातभावस्य जिघांसोरुत्क्रान्तजन्तुप्राणकलापस्य भावतो द्रव्यतश्च हिंसेत्येवमुदिते विकल्पये प्रमत्तयोगत्वं, द्वितीयतृतीयविकल्पयोः, अतस्तयोरेव हिंसकत्वं न प्रथमस्येति । अपरे तु प्रमादमष्टविधं वर्णयन्ति -
" अज्ञानं संशयश्चैत्र, मिथ्याज्ञानं तथैव च ।
रागो द्वेषोऽनवस्थानं, स्मृतेर्धर्मेष्वनादरः || १ ||" - अनु०
अपरे तु वते - " अप्रयत्नासमितः प्रमत्तः ।" प्रयत्नो द्विविधः - जीवाजीवपदार्थपरिज्ञानमीर्यादिसमितिपञ्चकं चेति । एतद्विरहितः प्रमत्त उच्यते । प्रमत्तस्य लक्षणा- सूत्रकारेण प्रमत्तयोगादित्येतदभिधता सर्वमेवैतत् प्रमत्तलक्षणं समन्तरम् ग्राहीति । स्यादेतत्, अस्तु तृतीयविकल्पे प्राणातिपातः सम्पूर्णलक्षणस्वात् । मार्यमाणः प्राणी यदि भवति, हन्तुश्च प्राणीति यदि विज्ञानमुपजातं, हन्मीति च यदि वधकचित्तोत्पादः, यदि च व्यापादितः स्यात् सर्वं चैतदुपपन्नं तृतीये । द्वितीय विकल्पे तु नास्त्येतत् समस्तम्, अतः कथं तत्र हिंसकत्वम् । । एतदेव च प्राणातिपातलक्षणम् । अपरं स्पष्टतरं प्रपश्चितम् -
1
↑
" प्राणातिपातः सञ्चिन्त्य, परस्याभ्रान्तमारणं " इति ॥
द्विविधं मारणं सञ्चिन्त्यासञ्चिन्त्य च । सञ्चिन्त्यापि द्विविधं भ्रान्तस्याभ्रान्तस्य च । अभ्रान्तस्यापि द्विविधं आत्मनः परस्य चेति । अतो विशेषणत्रयमुपादीयते । एतदुक्तं भवतियदि मारयिष्याम्येनमिति संज्ञाय परं मारयति तमेव मारयति नान्यं भ्रमित्वा । इयता प्राणात्रिपातो भवति । यस्तर्हि संशयितो मारयति प्राणिनं प्राणी स चान्यो वेति सोऽप्यवश्यमेव निश्चलं लब्ध्वा तत्र प्रहरति योऽस्तु सोऽस्त्विति कृतमेवानेन त्यागचित्तं न भवतीति । ततश्च असश्चिन्त्य यो वधः क्रियते भ्रान्तेन वा आत्मनो वा स न प्राणातिपातः । प्राणभ वायुः, कायचित्तसंमिश्रितः प्रवर्तते चित्तप्रतिबद्ध वृत्तित्वात् तम - मारणे बौद्धयः तिपातयति - विनाशयति जातस्य स्वरससनिरोधादनागतस्योत्पत्तिं प्रतिपूर्वपक्ष: बध्नातीति । जीवितेन्द्रियं वा प्राणाः । कायस्यैव च सेन्द्रियस्य सज्जीवितेन्द्रियं व्यपदिश्यते, न त्वन्यस्यात्मनोऽभावात् । न ह्यात्मनः किञ्चित् प्रतिपादकं प्रमाणमस्तीति । अन्यस्त्वाह
१ ' तथाऽन्यस्या -' इति ङ-पाठः । २ ' अपरेण ' इति पाठः । ३ 'या' इति ङ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org