________________
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ७
वधपर्यायाः
हिंसनं हिंसा द्रव्यभावाभ्यां द्रव्यतः षड्जीवनिकायविषयं प्राणिनां पृथकरणं सकललोकप्रमाणोपाधिविशिष्टं रात्रिंदिवव्यवच्छिन्नं रागद्वेपमोहपरिणतिविशिष्टं च 1 मारणमपि यथाविहितप्राणपरित्याजनम् । अतिपातो विनाशः प्राणानामतिपातः, अथवा अतिपातः - पातनं शाटनं प्राणानामतिपातनं प्राणातिपातः । वधः - उपमर्दः प्राणानां वधः प्राणवधः । देहः - शरीरं देहादन्यो देहान्तरं, संक्रामणं - नयनं प्रापणं देहान्तरे संक्रामणं देहान्तरसंकामर्ण साधनं “ कृते" ति समासः ( 2 ) | पूर्वशरीरकं त्याजितः शरीरान्तरं परिप्राप्यते संसारभावी, न पुनर्यो मुक्तिमाप्स्यतीति । रोपणं जन्मपरिप्रापणं संवर्धनं च, आरोपणं - उत्सादनं उत्खननं विशेषेणारोपणं प्रमादपरवत्तया मारणादिशब्दार्थेष्वपि एतद् विशेषणं द्रष्टव्यम् । प्राणानां व्यपरोपणं प्राणव्यपरोपणम् । इतिशब्द एवंशब्दार्थे । एवमुक्तेन प्रकारेणानर्थान्तरं सूत्रन्यस्तहिंसाशब्दार्थान्नार्थान्तरं मारणादिशब्दवाच्यमेकमिदमिति प्रतिपादयति, एक एवार्थः शब्दैरेभिः प्रतिपाद्यत इति ॥ ८ ॥
भा०—अत्राह - अथानृतं किमिति १ । अत्रोच्यते
टी० - अत्राहेत्यादिना सम्बन्धं व्याचिख्यासते - अधानृतं किमिति । अथेति हिंसानन्तरं अनृतं निर्दिष्टं प्राक्, तत् किंलक्षणमित्यजानानः प्रश्नयति । आचार्यस्तु तल्लक्षणं वक्तुकाम आह- अन्रोच्यत इति । अत्र प्रश्नेऽभिधीयत इति । एतदुक्तं भवति - अभिहितहिंसालक्षणानन्तरोद्दिष्टमनृतं किंलक्षणमित्यत्रोच्यते- नानाप्रकारं परपीडापादनसमर्थम् -
७२
मनृतस्य लक्षणम् सूत्रम् - असदभिधानमनृतम् ॥ ७९ ॥
टी० - प्रमत्तयोगादित्यनुवर्तते अतो वाक्यार्थः प्रमत्तयोगादसदभिधानमनृतमिति । प्रमत्तो यः कायवाङ्मनोयोगैरसदभिधानं प्रयुङ्क्ते यत् तदनृतम् । भावसाधनः करसाधनो वाऽभिधानशब्दः । अव्ययम् । ऋतमिति सत्यार्थे । न ऋतमनृतम् । मिथ्याऽनृतमिति सूत्र विन्यासो युक्तो लघुत्वादिति चेत् तन्न । सत्याभासस्य परपीडाकारिणो वचसः पापादानहेतुकस्य प्रतिषेधाय कौशिका दिवाक्यस्येवासदभिधानग्रहणम् । एवंविधे च सूत्र विन्यासे पर्यायमात्रमित्युक्तं स्यात्, न तु लक्षणं मृषावादस्येत्यसद्ग्रहणे तु सर्वमुपपद्यते । अभिधानं-- वाग्योगविषयः । भावसाधनपक्षे प्रमत्तस्याभिनिविष्टचेतस आत्मनः कर्तुर्विवक्षितार्थप्रतिपादने साधकतममिति । कायेन हस्तलोचनौष्ठपादाद्यवयव क्रियाभिरलीकाभिः परं वञ्चयति वाचाऽप्यसद् ब्रवीति, मनसाऽप्यालोचयति - एवं परः प्रतारणीय इति । सच्छब्दः प्रशंसार्थो लोके प्रतीतः सत्पुरुषः सज्जन इत्यादिषु प्रयोगेषु । न सद् असत् अप्रशस्तमाप्तप्रणीतागमनिन्दितं निषिद्धं वा । तच्च त्रिवि - धमसदित्यादिना भाष्यकारो दर्शयति
१' ब्यवस्थितं ' इति पाठः । २ ' प्रतिपादिते इति ' ग-पाठः ।
सूत्र विन्यास - विचारः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org