________________
सूत्र ९] स्वोपज्ञभाष्य-टीकालङ्कृतम्
७३ भा०-असदिति सद्भावप्रतिषेधोऽर्थान्तरंगहीं च। तत्र सद्भावअसतपैविध्यम्
प्रतिषेधोनाम भूतनिह्नवः अभूतोद्भावनं च। तद्यथा-नास्त्यात्मा
नास्ति परलोक इत्यादि भूतनिह्नवः । टी०-असदित्यस्य शब्दस्यायमर्थः-सतो भावः सद्भावः। सच्च उत्पादव्ययध्रौव्यमुक्तं (अ०५, सू०२९) तस्य भावस्तदेव न तथा भवतीत्यनेकेन पर्यायरूपेणास्य प्रतिषेधो-निराकरणं यदेतदुत्पद्यतेऽवतिष्ठते व्येति च तदेकमेवंविधं नास्तीत्यपढ्वते । तत्र सद्भावप्रतिषेधव्याचिख्यासयेदमाह-तत्र सद्भावप्रतिषेधो नामेति । नामशब्दो वाक्यालङ्कारार्थः। सद्भावप्रतिषेधो द्विविधः-भूतनिहवः अभूतोद्भावनं च। भूतस्य-विद्यमानस्य निगवः-अपलापः। तद्यथानास्त्यात्मा नास्ति परलोक इति विद्यमानस्यात्मनः कर्तुः शुभाशुभानां कर्मगामनुभवस्मरणादिक्रियाधारस्य नास्तित्वं केचिन्मोहात् प्रतिजानते । आत्माभावे च परलोकिनोऽभा वात् परलोकाभाव इति सुज्ञानम् । आदिग्रहणाच्छुभाशुभकर्मतदुपभोगदानफलाभावपरिग्रहः। सद्भावप्रतिषेधभेद एवाभूतोद्भावनम् । चशब्दः समुच्चयार्थः । यथाऽवस्थितात्मसद्भावमसंख्येयप्रदेशपरिमाणमाश्रयवशात् संकोचविकासधर्मकमरूपरसगन्धस्पर्शमनेकप्रकारक्रियमवधूयाझानबलेनात्मानमभूतमेवात्मतत्वं समुद्भावयन्ति स्वरुच्या।
भा०-श्यामाकतन्दुलमानोऽयमात्मा, अङ्गुष्ठपर्वमात्रोऽयमात्मा, आदित्यवर्णः, निष्क्रिय इत्येवमाद्यभूतोद्भावनम् ॥
टी-श्यामाकतन्दुलमात्रोऽयमित्यादि । श्यामाकः-कुधान्यविशेषः तस्य तन्दुलस्तत्प्रमाणः श्यामाकतन्दुलमात्रः । अयमित्यनुभवगम्यः स्वप्रत्यक्ष आत्मा निर्दिश्यते । तथा अङ्गुष्ठपर्वमात्र इति । अङ्गुष्ठः-पाणेरवयवस्तस्य ले(रे)खावच्छिन्न उपरितनो भागः पर्व, तत्
प्रमाणमस्येति अङ्गुष्ठपर्वमात्र आत्मा। इत्थं चाभ्युपगमे तस्यात्मनः भारमनः परिमाणस्य शरीरैकदेशावस्थाने सति शेषदेशानां चेतनाऽभावप्रसङ्गः। ततश्च दंशमश
विचारः कमक्षिकादितोदने शस्त्रच्छेदने च तेषु देशेषु न दुःखवेदना स्यात् । चन्दनादिविलेपने च न सुखानुभवः । स्वानुभवसिद्धाश्च सुखदुःखवेदना इत्यतः प्रमाणविरुद्ध एष पन्था प्रहातव्यः । आदित्यवर्ण इति भास्वररूपस्तस्य चारूपादित्वादमूर्तत्वात् कुतो भास्वरता । कर्मात्मप्रदेशानामन्योऽन्यानुगतिलक्षणपरिणामाभ्युपगमे समस्ति रूपादिमत्ता चेत् तदसत् , ज्ञानावरणादिपुद्गलानामभासुरत्वात् । तस्मादयमपि हेयः पक्षः । निष्क्रिय इति । आत्मा सर्वगतस्तस्य च गमनागमनवीक्षणभोजनादिका क्रिया कायवामनःकरणजनिता, तदभावानिष्क्रिय इति व्याचक्षते, तदप्यसद्दर्शनम् , आत्मनः सर्वगतत्वे प्रमाणाभावात् । उपे
१ सद्भुतनिहवः' इति घ-पाठः।
'अभूतनिहवश्व ' इति ग-पाठः । ३ 'शनच्छेददेशेषु' इति
-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org