________________
७४
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ७ त्य वाऽभिधीयते, सर्वगतात्मनः सर्वत्र सर्वोपलब्धिप्रसङ्गः। अथ यत्रैवोपआत्मनो
___ भोगोपलब्ध्यधिष्ठानं शरीरमस्ति तत्रैवोपलब्धिस्तदभावान्नान्यत्र चेत् तदनिष्क्रियत्वस्य निरास: युक्तम् , अन्यत्रापि शरीरकाणां संम्भवात् । निजधर्माधर्मोत्पादितं यच्छ
रीरकं तत्रेति चेत् तदसत्, निष्क्रियत्वात् । आत्मनस्तावेव धर्माधर्मों कथं निजाविति निष्क्रियस्य संसारमुक्तिप्रहाणप्राप्युपायानुष्ठानाभावादसमीचीन एव निष्क्रियत्वपक्षः। आदिग्रहणात् क्षणविनश्वरविज्ञानमात्रतोद्भावनं स्कन्धमात्रतोद्भावनमवक्तव्यतोद्भावनं वा सर्वमनृतमिति । असत एव द्वितीयभेदव्याख्यानायाह
भा०-अर्थान्तरं यो गां ब्रवीत्यश्वं अश्वं च गौरिति । गर्हेति हिंसापारुप्यपैशुन्यादियुक्तं वचः सत्यमपि गर्हितमेव भवतीति ॥९॥
टी०-अर्थान्तरमित्यादि । अर्थादन्योऽर्थःअर्थान्तरम् । तद् दर्शयति-योगांब्रवीत्यश्वमिति अश्वं च गौरिति । य इति प्रमत्तस्य कर्तुनिर्देशः। गोशब्दः सङ्केतवशात् सानादिमतिपिण्डे लोकेन व्यवहारार्थ प्रयुज्यत इति रूढम् । अश्वशब्दोऽप्येकशफाद्यवयवसन्निवेशविशेषे प्रसिद्धः। वक्तातु वैपरीत्येन मौढ्यात् प्रयोगं करोत्यश्वशब्दं गवि प्रयुङ्क्ते, शाठ्याद वा, गोशब्दं चाश्व इति, एवम्, अचौरं चौर इत्यादि ॥असत एव तृतीयभेदो गर्दा। तद्विवरणायाह-गर्हेति हिंसेत्यादि । गहणं गर्दा कुत्सा शास्त्रप्रतिपिद्धवागनुष्ठानं गर्हितं कुत्सितमितियावत् । युक्तशब्दः प्रत्येकमभिसम्बध्यते । हिंसायुक्तं वचः सद्भूतार्थप्रतिपत्तिकायप्यलीकमेव । यतो हिंसानिवत्तेम॒षावादादिनिवृत्तिः परिकरः। हिंसानिवृत्तिपरिरक्षणार्थमेव हि मृषावादादिवृत्तय उपदिष्टाः। तत्र हिंसा-अभिहितलक्षणा येन वचसोच्यमानेन प्राणिनां परितापावद्रावणे भवतस्तद्धिसायुक्तं वचः सत्यमप्यागमे कुत्सितत्वादनृतमेव भवति । यतः प्राणि पीडापरिरक्षणार्थ मृषावादादिनिवृत्तिरिति । तथा पारुष्ययुक्तं परुषो-निष्ठरस्तद्भावः पारुष्यं-निष्ठुरवचनाभिव्यङ्गयमन्तगैताशुभभावपिशुनं तदपि परपीडोत्पादहेतुत्वात् सत्यमपि गर्हितम् । तथा पैशुन्ययुक्तम् । मर्मसु तुदन् परान् पिशुन उच्यते, तद्भावः पैशुन्यम् । येन येन वचसोचार्यमाणेन परस्य प्रीतिर्विहन्यते तत् सर्व पैशुन्ययुक्तमिति । आदिशब्दाच्छलशठदम्भकल्कविकारोप्तिकाकटुकसन्दिग्धाहितामिताप्रशस्त विकथाश्रितप्रवचनविरुद्धसावद्यग्रहण मिति । आगमश्च
"जा य सच्चा अवत्तव्वा, सच्चामोसा य जा मुसा। जा य बुद्धेहिं णाइण्णा, ण तं भासिज्ज पण्णवं ॥१॥"-अनु०
-दशवकालिके ( अ०७, उ०२) 'भावात्' इति उ-पाठः । २'तमनृतमेव' इति घ-पाठः । ३ छाया
या च सत्या अवक्तव्या सत्यामृषा च या मृषा। या च बुद्धैः अमाचीर्णा नैना भाषेत प्रज्ञावान् ॥ १॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org