________________
सूत्रं ९]
स्त्रोपज्ञभाष्य-टीकालङ्कृतम् वाचकेनाप्युक्तम्
" यद् रागदोषवद् वाक्यं, तत्वादन्यत्र वर्तते ।
सावधं वाऽपि यत् सत्यं, तत् सर्वमनृतं विदुः ॥१॥" तथा परेणाप्युक्तम्
" अनृतमसद्वचनं स्या-चतुर्विधमसच्च जिनवरैदृष्टम् ।
सद्भूतप्रतिषेधो-ऽसद्भूतोद्भावनं च तथा ॥१॥"-आर्या नास्ति घटः, शशशृङ्गमस्तीति, गर्हितवचनं व्य(ह्य)सत् सतोऽपि वा वचनमन्यथा यत् स्यात्, गर्हितमुपघातादि, इतरच गौरश्व इति वचनं, तस्मात् प्रमत्तयोगादसदभिधानमनृतमिति व्यवस्थितम् । तच्च संक्षेपतश्चतुःस्थानसंगृहीतं सर्वद्रव्य विषयमेन्यूनम् । द्रव्याणि च लोकालोकावच्छिन्नानि, कालो रात्रिंदिवलक्षणः, भावतो रागद्वेषमोहपरिणत आत्मा । अनेनैतदपि प्रतिक्षिप्तमवसेयम्संभिन्न प्रलाप-" न नर्मयुक्तं वचनं हिनस्ति, न स्त्रीषु राजन् ! न विवाहकाले ।
तानिरासा प्राणात्यये सर्वधनापहारे, पञ्चानृतान्याहुरपातकानि ॥१॥"-उपजातिः इति । अपरे तु मोहादयुक्तं मृषावादलक्षणं ब्रुवते । अन्यथासंज्ञिनो वाक्यमर्थाभिज्ञे मृषावचः । यद्वचनं यमर्थं ब्रवीति तस्मिन्नन्यथासंज्ञीभवति चौरमचौरमिति, यं वाऽधिकृत्य ब्रवीति स तस्य वाक्यस्यार्थाभिज्ञो यदि भवति ततस्तद्वाक्यं मृपावादः, अर्थाभिज्ञश्वाभिज्ञातुं समर्थो यश्च उत्पन्नभावः उत्पन्ने श्रोत्रविज्ञाने, वाक्यार्थश्च मनोविज्ञानविषयो न श्रोत्रविषयश्च, अभिज्ञातुं समर्थे श्रोतरीत्येतदभ्युपेतं भवति । वाक्याथानभिज्ञे तु संभिन्नः प्रलापः स्यान्न मृषावाद इति, तदेतदयुक्तं, प्रमत्तभाषितत्वात् । अर्थाभिज्ञोऽनभिज्ञो वा भवतु श्रोता, किं तेन बाह्येन वस्तुतो निमित्तमात्रतयोपयुज्यमानेन ? स्वाश्रयोऽत्रापराध्यति । सर्वथाऽपि प्रमत्तो यः कायवाङ्मनो. योगैरसदभिधत्ते तदनृतम् , आशयस्याविशुद्धत्वात् । संभिन्नप्रलापश्च परिभाषान्तरमात्मरुच्या व्यवस्थापितमनृतवचनात् परमार्थतो न भियत एव वाचकमुख्यप्रणीतानृतलक्षणात् इति ॥९॥ ___भा०-अत्राह-अथ स्तेयं किमिति ? । अत्रोच्यते
टी०-अत्राहेत्यादि सम्बन्धं वक्ति । पूर्वमूत्र क्रमोपन्यस्तहिंसाद्यवधृतलक्षणानन्तरं स्तेयलक्षणं प्रश्नयति-अथ स्तेयं किमिति । लक्षणविषयप्रश्ने यल्लक्षणं पृच्छयते कीदृगिति । आचार्यस्तु अत्रोच्यत इत्याह । अत्र प्रश्ने स्तेयलक्षणमुच्यते
१ 'भावदोष ' इति ग-पाठः। २ 'मद्भूतं ' इति ङ-पाठः । ३ 'स्वाशयो' इति ङ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org