________________
२८७
२८७
सुत्रं ४९]
स्वोपज्ञभाष्य-टीकालङ्कृतम् श्रुतं कियत् कस्येत्याह
भा०-श्रुतम् । पुलाक-बकुश-प्रतिसेवनाकुशीला उत्कृष्टेनाभिन्नाक्षरदशपूर्वधराः । कषायकुशील-
निन्थौ चतुर्दशपूर्वधरौ । जघन्येन पुलाकस्य श्रुतमाचारवस्तु । बकुश-कुशील-निर्ग्रन्थानां श्रुतमष्टौ प्रवचनमातरः । श्रुतापगतः केवली स्नातक इति ॥ ____टी-पुलाक-बकुश-प्रतिसेवनाकुशीला उत्कर्षेण अभिन्नाक्षराणि दश पूर्वाणि धारयन्ति । अभिन्नम्-अन्यूनमेकेनाप्यक्षरेणान्यूनानि दश पूर्वाणीत्यर्थः । कषायकुशीलो निर्ग्रन्थश्च चतुर्दशपूर्वधर उत्कर्षतः । जघन्येन पुलाकस्य नवमपूर्वान्तःपाति तृतीयमाचारवस्तु यावच्छ्रुतम् । बकुश-कुशील-निर्ग्रन्थानामष्टौ प्रवचनमातरः ।
. श्रुतरहितः केवलीति । आंगमस्त्वन्यथा व्यवस्थितः-"पलाए णं भंते आगमे मतभेदः केवतियं सुर्य अहिजि(ज्जे? )ज्जा ? गोयमा ? जण्हणेणं णवमस्स पुव्वस्स तत्तियं आयारवत्थु, उकोसेणं नव पुव्वाई संपुण्णाई, बउसपडिसेवणाकुसीला जहण्णेणं अहपवयणमायाओ, उक्कोसेणं चोदस पुव्वाइं अहिजिज्जा कसायकुशीलनिग्गंथा जहण्णेणं अहपवयणमायाओ उक्कोसेणं चोदस पुन्वाइं अहिज्जिञ्जा ॥"
सम्प्रति प्रतिसेवनामाश्रित्योच्यते--
भा०-प्रतिसेवना पश्चानां मूलगुणानां रात्रिभोजनविरतिषष्ठानां पराभियोगाद् बलात्कारेणान्यतमं प्रतिसेवमानः पुलाको भवति । मैथुनमित्येके ।
टी-प्रतिसेवना पश्चानामित्यादि । मूलगुणाः प्राणातिपातनिवृत्यादयः पञ्च क्षपाभोजनविरतिश्च तानपरेणाभियुज्यमानः सेवते । पराभियोगादित्यस्यैव व्याख्याबलात्कारेण वा परेणाभियुक्तः प्रेरितो यदा भवति तदा प्रवर्तते, न स्वरसत एव । परैस्तु राजादिभिर्बलात्कारेण प्रवर्त्यते । तदेवमन्यतमं मूलगुणं प्रतिसेवमानः पुलाको भवति । मैथुनमित्येके । अपरे आचक्षते-मैथुनमेवेत्थं पराभियोगात् बलात्कारेण सेवा कार्यते स पुलाकः, न प्राणातिपातं सेवमान इति । अत्राप्यन्यथैवागमः-"पुलाए णं भंते ! किं पडिसेवए
होज्जा अप्पडिसेवए. होज्जा ? गोयमा ! पडिसेवए, नो अपडिसेवए । जह मतान्तरम् पडिसेवए कि मूलगुणपडिसेवए उत्तरगुणपडिसेवए ? मूलगुणपडिसेवए
१ 'आगमरहितः' इति ग-पाठः । २ कोऽयमागम इति न निणर्णीयते, सदृक् पाठस्तु समस्ति भगवत्यां (श० २५, उ० ६, सू० ७५७)। ३ छाया-पुलाको भदन्त ! कियत् श्रुतमधीयेत ? गौतम | जघन्येन नवमस्य पूर्वस्य तृतीयमाचारवस्तु, उत्कृष्टेन नव पूर्वाणि सम्पूर्णानि, बकुशप्रतिसेवनाकुशीलौ जघन्येन अष्टप्रवचनमातरः, उत्कृष्टेन चतुर्दश पूर्वाणि अधीयाताम् । कषायकुशीलनिर्ग्रन्थौ जघन्येन अष्टप्रवचनमातरः, उत्कृष्टेन चतुर्दश पूर्वाणि अधीयेयाताम् । ४ 'दस पुव्वाई' इति मुद्रितायो भगवत्याम्। ५ प्राय ईदृक् पाठो वर्तते भगवत्यां (श० २५, उ०६,सू०७५५)। ६ पुलाको भदन्त ! किं प्रतिसेवको भवेत् अप्रतिसेवको भवेत् । गौतम । प्रतिसेवकः नो अप्रतिसेवकः । यदि प्रति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org