________________
२८६
विध्यम्
तवार्थाधिगममूत्रम्
[ अध्यायः ९ टी-एते पुलाकादय इत्यादि। एत इत्युक्तलक्षणाः पुलाकादयः पञ्च निर्ग्रन्थाः । एभिः संयमादिभिरष्टाभिरनुगमविकल्पैरनुगमनम् -अनुसरणमनुगमोऽनुयोगद्वाराण्यर्थार्पणमुखानि तद्विकल्पैः-तद्भेदैः साध्या भवन्ति । तद्यथेत्यादिना । तान् संयमादिविकल्पानुपन्यस्यति । संयम इति प्रथमोऽनुगमविकल्पः । पुलाकादीनां पश्चानां निर्ग्रन्थानां कः कस्मिन् संयमे सामायिकादौ भवति-वर्तत इत्यज्ञप्रश्नः । उच्यते----यो यस्मिन संयमादौ भवति स तथा भण्यते । पुलाक-बकुश-प्रतिसेवनाकुशीलास्त्रयो निर्ग्रन्थाः संयमद्वये वर्तन्ते
सामयिकसंयमे छेदोपस्थाप्यसंयमे च । तत्र पुलाकः पञ्चपुलाकस्य पश्च
य पञ्च मेदः ज्ञान-दर्शन-चरण-लिङ्ग-सूक्ष्माख्यः । स्खलितादिभिर्ज्ञानपुलाकः । विधता
कुदृष्टिसंस्तवादिभिर्दर्शनपुलाकः । मूलोत्तरगुणप्रतिसेवनातश्चरणपुलाकः । यथोक्तलिङ्गाधिकरणाल्लिङ्गपुलाकः । किश्चित्प्रमादात् सूक्ष्मपुलाकः । एष पञ्चप्रकारोऽपि
संयमद्वये वर्तते । बकुशोऽपि आभोगा नाभोग-संवृता-संवृत-मूक्ष्मबबकुशादेः पाच
- कुशभेदात् पश्चप्रकारः । तत्र सश्चिन्त्यकारी आभोगबकुशः । सहसाकारी
अनाभोगबकुशः। प्रच्छन्नकारी संवृतबकुशः । प्रकटकारी असंवृतबकुशः । किश्चित्प्रमादी सूक्ष्मबकुशः । प्रतिसेवनाकुशीलोऽपि ज्ञान-दर्शन-चरण लिङ्ग- सूक्ष्मभेदेन पश्चप्रकारः । ज्ञानाधतिचारप्रतिसेवनादिति । प्रतिगता सेवना प्रतिसेवना । क्रियायोगात्यये सत्युपसर्गसज्ञाभावात् षत्वाभावोऽतिसिक्तवत् । अन्ये तु प्रतिपेवणामेवेच्छन्ति । कषाय
कुशीलाः परिहारविशुद्धिसंयमे सूक्ष्मसम्परायसंयमे च द्वयोरेव मतान्तरम् दर्शिता भाष्यकारेण । अपरे तु ब्रुवते-"कषायकुशीला: सामायिकादिषु चतुर्यु संयमेषु यथाख्यातसंयमरहितेषु वर्तन्ते"। यथाऽऽह
"आधचारित्रयोराधा-स्त्रय एकश्चतुर्ध्वपि ।
निर्ग्रन्थ-स्नातको नित्यं, यथाख्यातचरित्रिणौ ॥१॥"-अनु० प्रतिसेवनाकुशीलवत् कषायकुशीलोऽपि पश्चमेद एव। निर्ग्रन्था स्नातकश्च एकस्मिन्नेव पथाख्यातसंयमे वर्तते । उपशान्तक्षीणमोहा निग्रेन्थाः । स्नातकाः सयोगायोगकेवलिनः। निर्ग्रन्थोऽपि पश्चमेद एव, प्रथमसमया-प्रथमसमय-चरमसमया-ऽचरमसमय-सूक्ष्ममेदतः । स्नातकोऽपि पश्चप्रकार:-अच्छविः, अशबलः, अकाशः, अपरिश्रावी, संशुद्धज्ञानदर्शनधरश्चेति । छवि:-शरीरं तदभावात् काययोगनिरोधे सति अच्छविभेवति । निरतिचारत्वादशबलः । क्षपितकर्मत्वादकोशः । निष्क्रियत्वात् सकलयोगनिरोधे त्वपरिश्रावी । ज्ञानान्तरेणासम्पृक्तत्वात् संशुद्धज्ञानदर्शनधर इति ॥
१'स्खलनादिमिः' इति हु-पाठः। २ 'आमिकानाभोग' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org