________________
२८५
सूत्र ४९]
स्वोपज्ञभाष्य-टीकालङ्कृतम् " ध्यानं ह्यभिसन्धान, ध्यानेन च कर्मणो भवति मोक्षः।
ध्यानेन ततः क्षपयति, कर्माणि स पञ्चमात्रेण ॥ १॥"-आर्या पश्च मात्रा यत्र ध्यान इति । एवंविधावस्थाः शैलेशीप्रतिपन्ना उच्यन्ते तदा चेमाः प्रकृतीः क्षपयन्ति
" स्पर्शरसवर्णगन्धा-ऽनादेयनिर्माणदेहनामानि । संहननाङ्गोपाङ्गा-नि तथा संस्थाननामानि ॥१॥-आर्या नृसुरगतिप्रायोग्ये, सुरगत्युपघातमगुरुलघुता च । उच्छासपराघाता, पर्याप्तशुभाशुभानि तथा ॥२॥-, दुर्भगदुःस्वरमुच्चै-नींचैर्गोत्रस्थिरास्थिराणि तथा । अन्यतरवेद्यखगति, प्रत्येकशरीरमयशश्च ॥ ३॥-, प्रकृतय एता द्विचरम-समये तस्य क्षयं समुपयान्ति । क्षपयत्ययोगिवेद्याश्च ततः प्रकृतीः स चरमान्ते ॥४॥-, तैजसशरीरबन्धो-ऽपि तस्य नामक्षयात् क्षयं याति ।
औदारिकबन्धो-ऽपि, क्षीयत आयुःक्षयात् तस्य ॥ ५॥-, एवमशेषकर्मक्षयान्मुक्तो भवति ॥ ४८ ॥
एवमेते पुलाकादयोऽभिहिताः पञ्च निर्ग्रन्थाः स्वरूपतः । अथैषां कः कस्य संयमविकल्पः श्रुतादिविकल्पो वेत्याहमनगम विकल्पा- सूत्रम्-संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपाएकम् तस्थानविकल्पतः साध्याः ॥ ९-४९ ॥
टी-संयमादयोऽष्टौ स्थानान्ताः कृतद्वन्द्वा विकल्पशब्देन सह समस्यन्ते । संयमादीनां विकल्पाः-चरणभेदाः तैः संयमादिविकल्पैः । संयमादिविकल्पतः संयमादिकारणैर्हेतुमिः
__ साध्याः-साधनीयाः प्रतिविशिष्टाः संयमादिरूपेण । केचित् तु विकल्पव्याख्याऽन्तरम् शब्दं स्थानसनिधावेव नियुञ्जते स्थानस्य विकल्पाः संयमस्थानभेदा इति ॥
भा०–एते पुलाकादयः पञ्च निर्ग्रन्थविशेषाः एभिः संयमादिभिरनुयोगविकल्पैः साध्या भवन्ति । तद्यथा-संयमः । कः कस्मिन् संयमे भवतीति । उच्यते-पुलाक-बकुश-प्रतिसेवनाकुशीला द्वयोः संयमयोः सामयिके छेदोपस्थाप्ये च, कषायकुशीला द्वयोः परिहारविशुद्धौ सूक्ष्मसंपराये च, निर्ग्रन्थ-स्नातको एकस्मिन् यथाख्यातसंयमे ॥
'गमविकल्पैः' इति घ-टी-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org