________________
२८८ तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ९ उत्तरगुणपडिसेवए य । मूलगुणे पडिसेवमाणे पंचण्हं महव्वयाणं अण्णयरं पडिसेवे उत्तरगुणे पडिसेवमाणे दसविहस्स पञ्चक्खाणस्स अण्णयरं पडिसेवेजा ॥"
भा०-बकुशो विविधः-उपकरणबकुशः शरीरबकुशश्च । तत्रोपकर
___ णाभिष्वक्तचित्तो विविधविचित्रमहाधनोपकरणपरिग्रहयुक्तो बकुशस्य द्वैविध्यम् बविशेषोपकरणाकाक्षायुक्तो नित्यं तत्प्रतिसंस्कारसेवी भिक्षुरुपकरणबकुशो भवति ॥
टी-बकशो द्विधा-उपकरण-शरीरभेदात् । तत्र-तयोरुपकरणबकुश उपकरणेवस्त्र-पात्रादौ अभिष्वक्तचित्तः-प्रतिबद्धस्नेहः समुपजाततोषः । वस्त्रं विविध देशमेदेन पौण्डूवर्धनककासाकुलकादि । पात्रमपि पुरिकांगन्धधारकप्रतिग्रहकादिविचित्रं रक्तपीतबिन्दुसितपट्टकादिप्रचितं महाधन-महामूल्यम् । एवमादिना उपकरणपरिग्रहेण युक्तो ममेदं स्वं अहमस्य स्वामीत्युपजातमूर्छः पर्याप्तोपकरणोऽपि भूयो बहुविशेषोपकरणकाङ्क्षायुक्तः बहुविशेषो यत्र मृदु-दृढ-श्लक्ष्ण-घन-निचित-रुचिरवर्णादि तादृश्युपकरणे लब्धव्ये जातकाङ्क्षो-जाताभिलाषः । सर्वदा च तस्योपकरणस्य प्रतिसंस्कारं प्रक्षालनदशाबन्धघटिकासंवेष्टनादिकं सेवमानस्तच्छील उपकरणबकुशः॥
भा०-शरीराभिष्वक्तचित्तो विभूषार्थ तत्पतिसंस्कारसेवी शरीरबकुशः। प्रतिसेवनाकुशीलो मूलगुणानविराधयन् उत्तरगुणेषु काश्चिद् विराधनां प्रतिसेवते । कषायकुशील-निर्ग्रन्थ-स्नातकानां प्रतिसेवना नास्ति ॥
टी-शरीरबकुशस्तु शरीराभिष्वक्तेत्यादि । तस्य-शरीरस्याभ्यञ्जनोद्वर्तनस्नानादिक प्रतिसंस्कार सेवमानस्तच्छील एव भवति । एष चोत्तरगुणभ्रंशकारी, न तु मूलगुणान् विराधयति । यथोक्तमागमे-"उसे पुच्छा । गोयमा! नो मूलगुणपडिसेवी होजा उत्तरगुणपडिसेवी होज्जा । उत्तरगुणे पडिसेवमाणे दसविहस्स पच्चक्खाणस्स अण्णयरं पडिसेवेज्जा"।
सेवकः किं मूलगुणप्रतिसेवक उत्तरगुणप्रतिसेवकः ? मूलगुणप्रतिसेवकः उत्तरगुणप्रतिसेवकश्च । मूलगुणान् प्रतिसेवमाना पश्चाना महाव्रतानां अन्यतरं प्रतिसेवेत उत्तरगुणान् प्रतिसेवमानो दशविधस्य प्रत्याख्यानस्य अन्यतर प्रतिसेवेत ।
'काङ्गधारक' इति ग-पाठः । २ छाया
बकुशे पृच्छा । गौतम । नो मूलगुणप्रतिसेवी भवेत् , उत्तरगुणप्रतिसेवी भवेत् । उत्तरगुणान् प्रतिसेवमानो दशविधस्य प्रत्याख्यानस्यान्यतरं प्रतिसेवेत ।
३ 'सेवए' इति भगवत्यां (श• २५, २० ६, सू० ७५५)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org