SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ भागमे सूत्र ४९] स्वोपज्ञभाष्य टीकालङ्कृतम् २८९ प्रतिसेवनाकुशीलो मूलगुणान् प्राणातिपातनिवृत्त्यादीनविराधयन्-अखण्डयनुत्तरगुणेषु ..... दशसु काश्चिद् विराधनां न सर्वो कदाचिदेव प्रतिसेवत इति । "अत्राप्यागमोऽन्यथाऽतिदेशकारी-"पंडिसेवणाकुसीलो जहा पुलागो"। कषायकुशीलस्य निर्ग्रन्थस्नातकयोश्च नास्त्येव प्रतिसेवनेति ॥ भा०-तीर्थम् । सर्वे सर्वेषां तीर्थकराणांतीर्थेषु भवन्ति । मतान्तरम् एके त्वाचार्या मन्यन्ते-पुलाक-बकुश-प्रतिसेवनाकुशीलास्तीर्थे नित्यं भवन्ति, शेषास्तीर्थे वाऽतीर्थे वा ॥ टी०-तरन्त्यनेनेति तीर्थ-प्रवचनं प्रथमगणधरो वा । तत्र किं कस्यचिदेव तीर्थकृतस्तीर्थेषु पुलाकादयो भवन्त्युत सर्वेषामेव तीर्थकराणामित्याह-सर्वे सर्वेषामित्यादि । सर्वे पुलाकादयः सर्वेषां तीर्थकृतां तीर्थेषु भवन्ति । एके त्वाचायों इत्यादि। पुलाको बकुशा प्रतिसेवनाकुशीलश्च नित्यं तीर्थ एव । शेषाः कपायकुशील-निर्ग्रन्थ-स्त्रातकाः तीर्थे भवन्ति । एते कदाचिंदतीर्थेऽपि मरुदेवीप्रभृतयः श्रूयन्त इति । मतमा इदमेव चादेशान्तरमाश्रित्यागममुपलभामहे--"पुंलागे णं भंते । किं तित्थे होजा अतित्थे वा होजा ? गोयमा! तित्थे होजा नो अतित्थे । एवं ब्रउसपडिसेवणाकुसीला वि कसायकुसीला तित्थे वा होजा अतित्थे वा होजा ? एवं नियंठसिणाया वि"॥ भा०–लिङ्गम् । लिङ्ग विविध-द्रव्यलिङ्ग भावलिङ्ग च । भावलिङ्ग प्रतीत्य सर्वे पश्च निर्ग्रन्था भावलिङ्गे भवन्ति, द्रव्यलिङ्ग प्रतीत्य भाज्याः ॥ टी-लिङ्ग विविधमित्यादि । लिङ्ग-चिह्न मुमुक्षोः । तच्च द्विधा-द्रव्य-भावभेदात् । तत्र व्यलिङ्गं रजोहरण-मुखवस्त्रिकादि । भावलिङ्गं ज्ञान-दर्शन-चारित्राणि । भावलि प्रतीत्य-निसृत्य सर्वे पश्चापि पुलाकादयो भावलिङ्गे भवन्त्येव । द्रव्यलिङ्ग प्रतीत्य भाज्याः कदाचिद् रजोहरणादि भवति कदाचिन्नेति, मरुदेवी-भरतप्रभृतीनामिति ॥ भा०-लेश्याः । पुलाकस्योत्तरास्तिस्रो लेश्या भवन्ति । बकुश-प्रतिसेवना. कुशीलयोः सर्वाः षडपि। कषायकुशीलस्य परिहारविशुद्धस्तिस्र उत्तराः। सूक्ष्म १ छाया___ प्रतिसेवनाकुशीलो यथा पुलाकः। २'कुसीले जहा पुलाए' इति भगवत्या (२० २५, उ० ६, सू. ७५५)। ३ सन्तुल्यता यदुक्तं भगवस्यां (सू. ७५८)। ४ छाया पुलाको भदन्त । किं तीर्थे भवेत् अतीर्थे वा भवेत् ? गौतम | तीर्थे भवेत् , नो अतीर्थे । एवं बकुशप्रतिसेवनाग कुशीला भपि । कषायकुशीलः तीर्थे वा भवेत् अतीर्थे वा भवेत् । एवं निम्रन्थस्नातको अपि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy