SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ शारीरबकुशस्य स्वरूपम् सूत्र ४८ ] . स्वोपचभाष्य-टीकालङ्कृतम् २८३ बकुश इति शबलपर्यायः । शबलो वर्णव्यतिकरः कचिद् वलक्षः कचित् कृष्णः कचिद् रक्तः एक एव पटः। एवमयमपि निर्ग्रन्थः । सातिचारत्वाचरणपटं शबलयति बकुशशब्दाथा विशुद्धयशुद्धिव्यतिकीर्णस्वभावं करोति । स च द्विधा-शरीरोपकरणभेदेन । तदाह वृत्ति(भाष्यी)कारः-नैर्ग्रन्थ्यं प्रति प्रस्थिता इत्यादि । निर्ग्रन्थस्य भावो नैर्ग्रन्थ्य ___ अष्टाविंशतिविधमोहनीयक्षयस्तत् प्रति प्रस्थिताः-प्रवृत्तास्तदभिमुखास्तत्क्षअकुशस्य छावण्यम् याकामिणः। शरीरम-अङ्गोपाङ्गसङ्घातः उपकारित्वादुपकरणं वस्त्रपात्रादि तद्विषयां विभूषाम्-अलङ्कृतिमनुवर्तन्ते, तच्छीलाश्चेति । शरीरे तावदनागुप्तव्यतिरेकेण ___ कर-चरण-वदनप्रक्षालनमक्षि-कर्ण-नासिकावयवेभ्यो दृषिकामलाद्यपनयनं त्य दन्तपवनभ(म्र)क्षणं केशसंस्कारं च विभूषार्थमाचरन् शारीरबकुशो भवति । उपकरणबकुशस्तु अकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिश्चोक्षकवास:प्रियः पात्रदण्डकाद्यपि तैलपात्रया(त्र्या) उज्ज्वलीकृत्य विभूषार्थमनुवर्तमानो बिभर्ति ऋद्धीः प्रभूतवस्त्रपात्रादिकास्ता इच्छन्ति कामयन्ते तत्कामाः यशःख्यातिगुणवन्तो उपकरणबकुशस्य विशिष्टाः साधवः इत्येवंविधः प्रवादस्तच्च यशः कामयन्त इति ऋद्धियस्वरूपम् शस्कामाः। सातगौरवमाश्रिता इति। सुखशीलता-सातगौरवं तदाश्रिताः । आदरवचनो गौरवशब्दः । सुखे य आदरः तदवाप्तिव्यापारप्रवणता तदाश्रिताः नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियास्वभ्युद्यताः। अविविक्ता इति नासंयमात् पृथग्भूता घृष्टजच्चाः तैलादिकृतशरीरमृजाः कर्तरिकाकल्पितकेशा एवंविधः परिवारो येषां ते अविविक्तपरिवाराः सर्वदेशच्छेदाऱ्यातीचारजनितशबलेन वैचित्र्येण युक्ताः एवंविधा निर्ग्रन्थाः बकुशसंज्ञाः॥ कुशीलस्वरूपनिर्धारणायाह भा० --कुशीला विविधाः-प्रतिसेवनाकुशीलाः कषायकुशीलाश्च । तत्र कशील वैविध प्रतिसेवनाकुशीला नैग्रेन्थ्यं प्रति प्रस्थिता अनियमितेन्द्रियाः प्रतिसेवनाकुशील- कथश्चित् किश्चिदुत्तरगुणेषु विराधयन्तश्चरन्ति ते' प्रतिसेवना. स्य स्वरूपं च कुशलाः ॥ टी-कुशीला द्विविधा इत्यादि । अष्टादशसहस्रभेदं शीलं तदुत्तरगुणभङ्गेन केनचित् कषायोदयेन वा कुत्सितं येषां ते कुशीला द्विप्रकाराः । तत्प्रकाराख्यानायाह-प्रतिसेवनाकुशीलाः कषायकुशीलाश्चेति । आसेवनं-भजनं प्रतिसेवना तया कुत्सितं शीलमेपामिति प्रतिसेवनाकुशीलाः । कषायाः संज्वलनाख्यास्तदुदयात् कुत्सितं शीलमेषामिति कषायकुशीलाः । 'ते' इत्यूनो ग-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy