________________
तच्चार्थाधिगमसूत्रम्
[ अध्यायः ९
अत्राह — उक्तमित्यादिसम्बन्धः । शुक्ले चांद्ये द्वे पूर्वविदः इत्युक्तं (अ० ९, सू० ३९, ४०), परे द्वे केवलिन इति चाभिहितं ( अ० ९, सू० ४१ ) । तत् कानि तानीति अजानान प्रश्ने कृते अत्रोच्यते इत्याह
२७८
सूत्रम् — पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपाति
शुक्लध्यानस्य
वातुर्विध्यम् व्युपरतक्रियानिवर्तीनि ॥ ९-४२ ॥
भा०- पृथक्त्ववितर्कम्, एकत्ववितर्क, सूक्ष्मक्रियमप्रतिपाति, व्युपरत क्रियानिवतीति चतुर्विधं शुक्लध्यानम् ॥ ४२ ॥
टी० – पृथक्त्ववितर्कमित्यादिना भाष्येण नामग्राहं पठति चतुरोऽपि भेदान् ॥४२॥ एते चोक्तलक्षणा भेदाः शुक्लध्यानमित्थं चतुर्विधमिति सस्वामिकमुक्तम् । तस्याधुना पूर्वोक्तस्वामिन एव विशेष्य कथ्यन्ते
सूत्रम् — तत् त्र्येककाययोगायोगानाम् ॥ ९४३ ॥
-
भा०
- तदेव चतुर्विधं शुक्लध्यानं त्रियोगस्यान्यतमयोगस्य काययोगस्यायोगस्य च यथासङ्ख्यं भवति । तत्र त्रियोगानां पृथक्त्ववितर्क, एकान्यतमकयोगानामेकत्ववितर्क, काययोगानां सूक्ष्मक्रियमप्रतिपाति, अयोगानां व्युपरत - क्रियानिवर्तीति ॥ ४२ ॥
टी० - तदेतच्चतुर्विधं शुक्लध्यानं प्रथमद्वितीयो ( ९ ) तमसंहननवतो भवति । तत्राद्यं पृथक्त्ववितर्क त्रियोगस्य भवति, मनो चाक् काययोगव्यापारवत इत्यर्थः । एकान्यतमयोगानामिति । अन्यतमैकयोगानामेकत्ववितर्क एकोऽन्यतमः कायादीनां योगो यस्य ध्यायिनो व्याप्रियते, कदाचिन्मनोयोगः कदाचिद् वाग्योगः कदाचित् काययोग इति । काययोगानामिति कायै योगभाजामेव सूक्ष्मक्रियमप्रतिपाति शुक्लध्यानमिति । निरुद्धयोगद्वयावस्थानां कायव्यापारवतां सूक्ष्मक्रियं भवति, न च प्रतिपतति । अयोगानामिति शैलेश्यवस्थानां ह्रस्वाक्षरपञ्चकोच्चारणसमकालानां मनो वाक् काययोगत्रयरहितानां व्युपरतक्रियमनिवर्ति ध्यानं भवति । उक्तं च
Jain Education International
" यदर्थव्यञ्जने काय - वेचसी च पृथक्त्वतः ।
मनःसङ्क्रमयत्यात्मा, स विचारोऽभिधीयते ॥ १ ॥ - अनु० सङ्क्रान्तिरर्थादर्थं यद्, व्यञ्जनाद् व्यञ्जनं तथा । योगाच्च योगमित्येष, विचार इति वा मतः ॥ २ ॥
१' बाह्ये ' इति ङ-पाठः । २ - ३ ' निवृत्ती ' इति घ-पाठः ।
४ ' वचसा' इति ङ-पाठः ।
For Personal & Private Use Only
www.jainelibrary.org