________________
सूत्र ४४]
___ स्वोपज्ञभाष्य-टीकालङ्कृतम्
२७९
अर्थादि च पृथक्त्वेन, यद् वितर्कयतीव हि । ध्यानमुक्तं समासेन, तत् पृथक्त्वविचारवत् ॥३॥ -अनु० अविकम्प्यमनस्त्वेन, योगसङ्क्रान्तिनिःस्पृहम् । तदेकत्ववितर्काख्यं, श्रुतज्ञानोपयोगवत् ॥ ४ ॥ सूक्ष्मकायक्रिया-रुद्धमूक्ष्मवाङ्मनसक्रियः।। यद् ध्यायति तदप्युक्तं, सूक्ष्ममप्रतिपाति च ॥ ५॥ -, कायिकी च यदेपाऽपि, सूक्ष्मोपरमति क्रिया । अनिवर्ति तदप्युक्तं, ध्यानं व्युपरतक्रियम् ॥ ६॥" ॥ ४२ ॥-,
सूत्रम्- एकाश्रये सवितर्के पूर्वे ॥९-४४ ॥
भा०–एकद्रव्याश्रय सवितर्के पूर्वे ध्याने प्रथमद्वितीये । तत्र सविचार प्रथम, अविचारं द्वितीयं, अविचारं सवितर्क द्वितीयं ध्यानं भवति ॥ ४४ ॥
टी०- एक आश्रय-आलम्बनं ययोस्ते एकाश्रये एकद्रव्याश्रये इति पूर्वविदारभ्ये मतिगर्भश्रुतप्रधानन्यापाराच्चैकाश्रयतापरमाणुद्रव्यमेकमालम्ब्यात्मादिद्रव्यं वा श्रुतानुसारेण निरुद्धचेतसः शुक्लध्यानमिति “ वितर्कः श्रुतम्" वक्ष्यति (अ०९, सू०४५) इति । सह वितर्केण सवितर्क, पूर्वगतश्रुतानुसारिणीत्यर्थः। पूर्व च पूर्वे च पूर्वे ध्याने । एतदेव निश्चिनोतिप्रथमद्वितीये इति पृथक्त्ववितर्कमेकत्ववितकं च । तत्र-तयोर्यत् प्रथमम्-आद्यं पृथक्त्ववितर्क तत सविचारं सह विचारेण सविचारं, सह सङ्क्रान्त्येति यावत् । वक्ष्यति (अ०९, मू०४६)"विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः" । कथं पुनरनुपात्तं सूत्रे सविचारमिति गम्यते । अविचारं द्वितीयमिति वचनादर्थलभ्यं प्रथम सविचारमिति ।
__ अविचारं द्वितीयम् । अविद्यमान विचारं अविचारं, अर्थव्यञ्जनयोगसङ्क्रान्तिरहितमित्यर्थः। द्वितीयमिति सूत्रक्रमप्रामाण्यांदेकत्ववितकेमविचारं भवति ध्यानमिति ॥ ४४ ॥
भा०--अत्राह-वितर्कविचारयोः कः प्रतिविशेष इति । अत्रोच्यतेटी०-अत्राहेत्यादि वितर्कविचारयाविशेषमजानानः स्वरूपमवगच्छन् परः
पृच्छति-कः प्रतिविशेष इति । प्रतिशब्दस्तत्त्वाख्यायां वर्तते । तशब्दस्य यथा-शोभनश्चैत्रः प्रतिमातरं एवं प्रतिविशेषः स्वरूपमितरेतरव्यावृत्तं तत्त्वं भर्थनानात्वम्
वितर्कविचारयोः कीदृगिति तत्त्वमाख्यायताम् । अत्रोच्यत इत्याह
१'कम्पमन' इति ङ-पाटः। २.दारम्भ' इति उ-पाठः।
३ देकत्वविचार' इति उ-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org