SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २३७ . भक्तप्रत्याख्याना सूत्र १९] स्वोपज्ञभाष्य-टीकालङ्कृतम् प्रवज्यादिप्रतिपत्तिक्रमेणैवायुषः परिहाणिमवबुध्य आत्तनिजोपकरणः स्थावरजङ्गमप्राणि.... विवर्जितस्थण्डिलस्थायी एकाकी कृतचतुर्विधाहारप्रत्याख्यानः छायात - उष्णं उष्णाच्छायां सङ्क्रामन् सचेष्टः सम्यग्ज्ञानपरायणःप्राणान् जहाति। एतदिङ्गिनीमरणमपरिकर्मपूर्वकं चेति । भक्तप्रत्याख्यानं तु गच्छमध्यवर्तिनः, स कदाचित् _____ त्रिविधाहारप्रत्याख्यायीति, कदाचिच्चतुर्विधाहारप्रत्याख्यायी, पर्यन्ते कृत याना समस्तप्रत्याख्यानः समाश्रितमृदुसंस्तारकः समुत्सृष्टशरीराद्युपकरणममत्व: नशनम् स्वयमेवोद्राहितनमस्कारः समीपवर्निसाधुदत्तनमस्कारो वा उद्वर्तनपरिवर्तनादि कुर्वाणः समाधिना करोति कालमेतद् भक्तप्रत्याख्यानं मरणमिति ॥ ___ उक्तमनशनम् । अवमौदर्यमुच्यते. भा०–अवमौदर्यम् । अवममित्यूननाम । अवर्ममुदरमस्य (इति) अवमोदरः। अवमोदरस्य भावः अवमौर्यम् ॥ टी-अवमौर्यम् । अवममित्यूननामेत्यादि । अवमं-न्यूनमुदरमस्येत्यबमोदरः तद्भावोऽवमौदर्य-न्यूनोदरता॥ कवलप्रमाणनिरूपणार्थमाह ___ भा०-उत्कृष्टावकृष्टौ च वर्जयित्वा मध्यमेन कवलेन त्रिअवमौदर्यस्य स्य विधमवमोदयं भवति । तद्यथा-अल्पाहारावमवौदर्य, उपा र पप र्धावमौदर्य, प्रमाणप्राप्तात् किश्चिदूनावमौदर्यमिति । कवलपरिसङ्ख्यानं च प्राग द्वात्रिंशद्भयः कवलेभ्यः ॥ टी-उत्कृष्टावकृष्टावित्यादि । उत्कृष्टो विकृत्य मुखविवरं यत्नतो महाप्रमाणं कृत्वा यः प्रक्षिप्यते, अवकृष्टस्त्वत्यन्तलघुकः, तौ वर्जयित्वा मध्यमेन कवलेनाविकृतस्वमुखप्रमाणेनावमौदर्य कार्यम्, तच्च त्रिविधमवमौयं तद्यथेत्यादिना प्रत्यक्षीकरोतिअल्पाहारावमौदर्यमित्यादि । तत्राहारः पुंसो द्वात्रिंशत्कवलप्रमाणः । कवलाष्टकाभ्यवहारोऽल्पाहारावमौदर्यम् । उपार्धावमौदर्य द्वादश कवलाः, अर्धसमीपम् उपाध, द्वादश कवला:, यतः कवलचतुष्टयप्रक्षेपात् सम्पूर्णमधं भवति । प्रमाणप्राप्ताहारो द्वात्रिंशत्कवलः । स चैकेन कवलेन न्यूनः किश्चिदूनावमौदर्य भवति। इतिशब्दः प्रकारार्थः । प्रमाणप्राप्तावमौदर्य चतु विंशतिः कवलाः । [भागद्वयावमौदर्य षोडश कवलाः] त्रिविधे चावमौदर्ये पुरुषप्रमदानां न एकैककवलहासेन बहूनि स्थानानि जायन्ते। सर्वाणि च तान्यवमौदर्य विशेषाः । कवलपरिसङ्ख्यानं चेति पुरुषस्य द्वात्रिंशत् , योषितोऽष्टाविंशतिः, अतो विभागः कार्यः॥ विध्यम वरख्या कवलस १' साधुकृत' इति ग-पाठः। २ममूनमुदर.' इति ग-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy