________________
२३६ तत्वार्थाधिगमसूत्रम्
[अध्यायः १ भा०-अनशनं १ अवमौर्य २ वृत्तिपरिसङ्ख्यानं ३ रसपरित्यागः ४ विविक्तशय्यासनता ५ कायक्लेशः ६ इत्येतत् षड्विधं याचं तपः॥ "सम्यग् योगनिग्रहो गुप्तिः" (अ० ९, सू० ४) इत्यतःप्रभृति सम्यगित्यनुवर्तते, संयमरक्षणार्थ कमनिर्जराथ च चतुर्थषष्ठाष्टमादि सम्यगनशनं तपः॥
टी०-अनशनमवमौदयं वृत्तिपरिसङ्ख्यानमित्यादि । प्राक प्रकृतः सम्यकशब्दोऽनुवर्तते । स च विशेषणम्-सम्यगनशनं सम्यगवमौदर्यम् , एवं च सर्वत्र वृत्तिपरिसङ्ख्यानादिष्वपि । किं पुनर्विशेषणेन व्यावत्यते ?, नृपशत्रुतस्करकृताहारनिरोधादि तथा पङ्क्तिनिमित्त
माजीवादिहेतोः उपहतभावदोषस्य हि न संयमरक्षणं न च कर्मनिर्जरेत्यतः सम्यग्ग्रहणे हेतवः सम्यग्ग्रहणम् । यस्तु प्रवचनोदितशु(श्रा)द्धतया स्वसामथ्योपेक्षो द्रव्यक्षे
कालभावाभिज्ञः क्रियाचाहापयन्नहोरात्राभ्यन्तरकार्याः करोत्यनशनादितपः स कर्मनिर्जराभाद् भवतीत्येवंमर्थमनुवय॑ते । सम्यग्ग्रहणं घालतपःप्रतिषेधार्थ च । संयमः सप्तदशभेद उक्तः (अ०९, सू०६), चारित्रं वा पञ्चप्रकारं संयमः। तत्परिपालनाय रसत्यागादि सम्यक्तपो भवति । कर्म ज्ञानावरणादि तस्य निर्जरा-आत्मप्रदेशेभ्यः परिशाटनम् । यथोक्तम् (प्रशमरतौ श्लो० १५९)-यद्वद् विशेषणादुपचितोपीत्यादि । तपश्च प्रायः सर्वे समये प्रतीतं शुभाशुभकर्मक्षयायेत्येवं कर्मनिर्जरणार्थे चेत्युक्तम् । चशब्दः समुच्चयार्थः । तत्रानशनमादावेव, आहारगवेषणे यत्नवानपि संयतः केनचिदतीचारकलङ्केन युज्यत एवेति तत्परिहारायोपन्यस्तं सप्रपञ्चं चतुर्थषष्ठाष्टमादीत्यादिना, अशनम्-आहारस्तत्परित्यागोऽनशनम् । तद् द्विधा-इत्वरं यावज्जीवकं च। तत्रेत्वरं व नमस्कारसहितादि । चतुर्थभक्तादि तु भाष्यकारेणोपन्यस्तमतीत्वर
" त्वादितरदुपेक्षितम् चतुर्थभक्तादि षण्मासपर्यवसानमित्वरमनशनं भगवतो महावीरस्य तीर्थे । यावज्जीविकं तु त्रिविधम्-पादपोपगमनं, इङ्गिनी, भक्तप्रत्याख्यानयावजीविकान
on मिति । तत्र पादपोपगमनं द्विधा-सव्याघातमव्याघातं च । सतोऽप्याशनस्यभेदप्रभेदाः युषो यदोपक्रान्तिः क्रियते समुपजातव्याधिनोत्पन्नमहावेदनेन तत्
सव्याघातम् । निर्व्याघातं तु प्रव्रज्याशिक्षापदादिक्रमेण जराजर्जेरितशरीरः करोति यदुपहितचतुर्विधाहारप्रत्याख्यानो निर्जन्तुकं स्थण्डिलमाश्रित्य पादप इवैकेन व पाश्वेन निपत्याऽपरिस्पन्दस्तावदास्ते प्रशस्तध्यानव्यावृत्तान्तःकरणो नशनम्
यावदुत्क्रान्ताः प्राणास्तदेतत् पादपोपगमनाख्यं अनशनम् । इङ्गिनी
श्रुतविहितक्रियाविशेषस्तद्विशिष्टं मरणमिङ्गिनीमरणम् । अयमपि हि १ 'व्यावृत्यते ' इति ङ-पाठः। २ 'त्येवमनु' इति ङ-पाठः। ३ 'शटनं ' इति च-पाठः । ४ सम्पूर्ण पद्यं यथा
“ यद्वद् विशोषणादुपचितोऽपि यत्नेन जीयते दोषः। तद्वत् कर्मोपचितं निर्जरयति संवृतस्तपसा ॥".
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org