________________
२३५
वर्णनम्
सूत्र १९]
स्वोपज्ञमाष्य-टीकालङ्कृतम् संक्लिष्टाध्यवसायस्य संक्लिष्टं, सूक्ष्मः-श्लक्ष्णावयवः सम्परायः-कषायः संसारभ्रान्तिहेतुर्यत्र तत् सूक्ष्मसम्परायम् । स चोपशान्तकषायोऽपि स्वल्पप्रत्ययलाभाद् दवदग्धाञ्जनद्रुमवदुदकासेच. नादिप्रत्ययलाभादरादिरूपेण भस्मच्छन्नानिवद् वा वाग्विन्धनादिप्रत्ययतः स्वरूपसुपदर्शयति, तद्वदसौ मुखवस्त्रिकादिषु ममत्वसमीरणेन सन्धुक्षमाणः कषायाग्निश्चरणेन्धनमामूलतो दहन् प्रच्याव्यते प्रतिविशिष्टाध्यवसायादिति । क्षायिकी तु श्रेणिरनन्तानुबन्धिनो मिथ्यात्वमिश्रसम्यक्त्वानि अप्रत्याख्यानप्रत्याख्यानावरणाः नपुंसकस्त्रीवेदौ हास्यादिपटकं पुंवेदः संज्वलनाथ, अस्याश्वारोहकः अविरतदेशप्रमत्ताप्रमत्ताविरतानामन्यतमो विशुध्यमानाध्यवसायः। स क्षपकश्रेणी
र चानन्तानुबन्धिनो युगपदेव क्षपयत्यन्तर्मुहूर्तेन । ततः क्रमेण दर्शनत्रिकं, । ततोऽप्रत्याख्यानप्रत्याख्यानावरणांश्च युगपदेव क्षपयितुमारभते । विमध्य
__ भागे चैषामिमाः षोडश प्रकृतीः क्षपयति-नरकतियेग्गती एतदानुपूयों एकद्वित्रिचतुरिन्द्रियजातीयातपोद्दयोतस्थावरसाधारणसूक्ष्मनामानि, ततो निद्रानिद्राप्रचला. प्रचलास्त्यानीः , ततोऽष्टानां शेषं, ततोऽनुदीण वेदं जघन्यं पूर्ववत् , ततो हास्यादिषट्कं, ततोऽप्युदितं वेदं, ततः संज्वलनानामेकैकं क्रमेण क्षपयति, सावशेषे च पूर्वसंज्वलनकषाये उत्तरं क्षपयितुमारभते । सर्वत्र पूर्वशेषं चोत्तरेणैव सह क्षपयति यावत् संज्वलनलोभसङ्ख्येयभागः। तमपि सङ्ख्येय( भाग )मसङ्ख्यानि खण्डानि कृत्वा प्रतिसमयमेकैकं खण्डं क्षपयति, तदा[पि] सूक्ष्मसम्परायसंयमी भवति। समस्तमोहनीयोपशमे तु एकादशगुणस्थानप्राप्त उपशान्तकषायो यथाख्यातसंयमी भवति । क्षपकस्तु सकलमोहार्णवमुत्तीर्णो निर्ग्रन्थो यथाख्यातसंयमी जायते । अथशब्दो यथाशब्दार्थे । यथा ख्यातः संयमो भगवता तथाऽसावेव, कथं च ख्यातः १, अकषायः, स चैकादशद्वादशयोगुणस्थानयोः, उपशान्तत्वात् क्षीणत्वाच कपायाभाव इति । एवं पञ्चविधं चारित्रमष्टविधकर्मचयरिक्तीकरणात् । तच पुलाकादिषु विस्तरेण वक्ष्यामः पुलाकादिसूत्रे उपरिष्टात् ( अ० ९, सू० ४८), पुलाकादिभेदेषु सामायिकादिसंयमः पञ्चप्रकारोऽपि पञ्चसु पुलाकादिनिग्रन्थेषु विस्तरेण-प्रपञ्चेन भावयिष्यत इति ॥१८॥
उक्तं चारित्रं, प्रकीर्णकं च तपः, सम्प्रत्यनशनादिकं तपो भण्यते--- बाह्यतपसः
सूत्रम्-अनशना-ऽवौंदर्य-वृत्तिपरिसङ्ख्यान-रसपरिपविधता
त्याग-विविक्तशय्यासन-कायक्लेशा बाह्यं तपः॥९-१९॥ टी-द्विविधं तपः-बाह्यमभ्यन्तरं च, तत्र बाह्याभ्यन्तरशब्दार्थः प्राइ निरूपितः । तदेकैकं पोढा । तत्र बाह्यस्य तावद् भाष्यकारो भेदानाचष्टे षडपि सूत्रं विवृण्वन्-.
१ ‘न्धनादिमामूल ' इति घ-पाठः । २ 'स्त्वारोहकः ' इति च-पाठः । ३ ' जातिरातपो' इति घ-पाटः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org