________________
प
२३४ तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ९ यैरिति परिभुक्ततादृग्विधतपसः, निर्विष्टकायिका इत्यर्थः । परिहारविशुद्धिकं च तपः प्रतिपन्नानां नवको गच्छः । तत्र परिहाराचारिणश्चत्वारोऽनुपरिहारिणोऽपि चत्वारः कल्पस्थित एकः, वाचनाचार्य इत्यर्थः । सर्वेऽपि ते श्रुताधतिशयसम्पन्नाः तथापि रुच्या (रूढ्या ?) कल्पस्थित एकः कश्चिदवस्थाप्यते । तत्र ये कालभेदेन विहितं तपोऽनुतिष्ठन्ति ते परिहारिणः। नियताचाम्लभक्तास्त्वनुपरिहारिणस्तेषामेवाभिसराः, तपोग्लानानां परिहारिणां सहायके वर्तन्ते । कल्पस्थितोऽपि नियताचाम्लभक्त एव । तच्च तपः परिहारिणां ग्रीष्मे चतुर्थषष्ठाष्टमभक्तलक्षणं जघन्यमध्यमोत्कृष्टं क्रमेणैव । शिशिरकाले षष्ठाष्टमदशमानि जघन्यमध्यमोत्कृष्टानि । वर्षास्वष्टमदशमद्वादशभक्तानि जघन्यमध्यमोत्कृष्टानि । पारणाकालेऽप्या
चाम्लमेव पारयन्ति । उक्तविधानं तपः षण्मासं कृत्वा परिहारिणोऽनु
कि परिहारित्वं प्रतिपद्यन्ते । अनुपरिहारिणश्च परिहारिणो भवन्ति । तेऽपि संयमस्य सीमा
- षण्मासान विदधते तत तपः, पश्चात् कल्पस्थित एकाक्येव षण्मासावधिक परिहारतपः प्रतिपद्यते । तस्य चैकोऽनुपरिहारी भवति, तन्मध्ये अपरश्वकः कल्पस्थित इति, एवमेष परिहारविशुद्धः संयमोऽष्टादशभिर्मासैः परिसमाप्तिमुपयाति । परिसमाप्ते तु तस्मिन् पुनस्तदेव केचित् परिहारतपः प्रतिपद्यन्ते स्वशक्यपेक्षाः, केचिद् वा जिनकल्पम् , अपरे तु गच्छमेव वा विशन्तीति । परिहारविशुद्धिकाच स्थितकल्प एव प्रथमचरमतीर्थकरतीर्थयोरेव, न मध्यमतीर्थेष्विति । सूक्ष्मसम्परायसंयमस्तु श्रेणिमारोहतः प्रपततो वा भवति ।
श्रेणिरपि द्विप्रकारा-औपशमिकी क्षायिकी च । तत्रौपशमिकी अनन्तानुबन्धिनो मिथ्यात्वादित्रयं नपुंसकस्त्रीवेदी हास्यादिषट्कं पुंवेदः अप्रत्याख्यानावरणाः संज्वलनाश्चेति । अस्याश्च आरम्भकोप्रमत्तसंयतः। अपरे तु ब्रुवते-"अविरतदेशप्रमत्ताप्रमत्तविरतानामन्यतमःप्रारभते,
र स चानन्तानुबन्धिनश्चतुरोऽपि समकमेव शमयति अन्तर्मुहूर्तेन, ततो भोपशमिकी
पाका दर्शनत्रिकं, ततोऽनुदीर्ण पुमानारोहन्नपुंसकवेदं, ततः स्त्रीवेद, योषिदारो. श्रेणी
हन्ती, प्राग नपुंसकवेदं, ततः पुरुषवेदं, तृतीयप्रकृतिरधिरोहन प्राक् स्त्रीवेदं, ततः पुरुषवेद, ततोऽपि हास्यादिषट्कं ततः (नपुंसक )पुंवेदं, ततोऽप्रत्याख्यानानां प्रत्याख्यानावरणानां च युगपदेव द्वौ क्रोधी संज्वलनक्रोधान्तरितौ शमयति, पश्चात् संज्वलनक्रोध, पुनी मानौ, पश्चात् संज्वलनमानं, पुन माये, ततः संज्वलनमायां, पुनद्वौ लोभी, पश्चात् संज्वलनलोभम् । सङ्ख्येयानि खण्डानि कृत्वा क्रमेण चोपशमय्य पश्चिमखण्डमसङ्ख्येयानि खण्डानि करोति । ततः प्रतिसमयमसङ्ख्येयभागमुपशमयन् समस्तमन्तमुहूर्तेन शमयति । तश्विासख्येयभागान् शमयन् सूक्ष्मसम्परायसंगमी भवति । अत्यन्तविशुद्धाध्यवसायो दशमगुणस्थानवर्ती, श्रेण्यारोहे च वर्धमानविशुद्धाध्यवसायस्य विशुद्धमवतरता
१'षण्मासी' इति हु-च-पाठः । २ 'हारिणं' इति -पाठः । ३ 'सावधिकं' इति घ-च-पाठः।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org