________________
सूत्र १८]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
२३३
"
टी. - सामयिकादयः कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः केचित् विच्छिन्नपदमेव सूत्रमधीयते, एकमेव चारित्रं समुदाये मा प्रापदिति, तच्च नातीव सूत्रपाठाविमर्शः बहु मन्यामहे, सामायिकमेवेदं छेदोपस्थाप्यादिभेदेन ज्ञापितम्, मतोऽतः परमार्थत एकमेव चारित्रं संयम इति अभेदं मन्यमानो भाष्यकृदाह – सामायिकसंयम इत्यादि । सर्वसावद्ययोगविरतिलक्षणं सामायिकं तद्विशेषा एव छेदोपस्थाप्यादयः, विशुद्धतराध्यवसाय विशेषाः सावद्ययोगविरतेरेव । तत्र शब्द निर्भेदः - रागद्वेषविरहितः समः अयो- गमनम् । सकलक्रियोपलक्षणमेतत् । सर्वैव क्रिया साधोररक्तसामायिक- द्विष्टस्य निर्जराफला । समस्यायः समायः, समाय एव सामायिकमिति
शब्दस्य निष्पत्तिः
स्वार्थिकः ठक् । समाये वा भवं सामायिकं, समायेन निर्वृत्तं सामायिकं, समायस्य वा विकारः तन्मयः सामायः, स प्रयोजनमस्येति वा, सर्वत्र यथाऽभिप्रेतेऽर्थे ठक् । तच सामायिकं द्विप्रकारम् — इत्वरकालं यावज्जीविकं च । तत्राद्यं प्रथमान्त्य तीर्थकर - तीर्थयोः प्रव्रज्या प्रतिपत्तावारोपितं शस्त्रपरिज्ञाध्ययनादिविदः श्रद्दधतः सामायिकस्य छेदोपस्थाप्य संयमारोपण विशिष्टतरत्वाद विरतेः सामायिकव्यपदेश द्वैविध्यम् जदातीत्यत इत्वरकालम् | मध्यमतीर्थकृतां विदेहक्षेत्रवर्तिनां च यावज्जीविकं - प्रव्रज्याप्रतिपत्तिकालादारभ्य - आप्राणप्रयाणकालादवतिष्ठते । प्रथमान्त्यतीर्थकर - शिष्याणां सामान्य सामायिकपर्यायच्छेदो विशुद्धतरसर्वसावद्ययोगविरताववस्थानं विविक्ततरमहाव्रतारोपणं छेदोपस्थाप्यसंयमः । छेदोपस्थापनमेव छेदोपस्थाप्यम् । पूर्वपर्यायच्छेदे सति उत्तरपर्याये उपस्थापनं भावे यतो विधानात् । तदपि छेदोपस्थाप्यस्य द्विधा, निरतिचार-सातिचारभेदेन । तत्र शिक्षकस्य निरतिचारमद्विविधता धीतविशिष्टाध्ययनविदः मध्यमतीर्थकरशिष्यो वा यदोपसम्पद्यते चरमतीर्थकरशिष्याणामिति । सातिचारं तु भग्नमूलगुणस्य पुनर्वतारोपणात् छेदोपस्थाप्यम् । उभयं चैतत् सातिचौरं निरतिचारं च स्थितकल्प एव, आद्यन्ततीर्थङ्करयोरेवेत्यर्थः । परिहारः- तपोविशेषस्तेन विशुद्धं परिहारविशुद्धिकं चेति । तदपि द्विधा - निर्विश्यमानकं निर्विष्टकायिकं च । तत्र निर्विश्यमानकम् - आसेव्यमानकं, परिपरिहारविशुद्धेः भुज्यमानकमित्यर्थः, निर्विष्टकायिकमासेवितमुपभुक्तम्, तत्सहयोगात् द्विविधत्वम् तदनुष्ठायिनोऽपि निर्विश्यमानकाः ताच्छील्ये शक्तौ वा चानय । निर्देश: - उपभोगः, निर्विशमानकास्तत् उपभुञ्जानाः, निर्विष्टकायिकास्तु निर्विष्टः कायो येषामस्ति ते निर्विष्टकायिकास्तत्सहयोगात् तेनाकारेण तपोऽनुष्ठानद्वारेण परिभुक्तः कायो
१ 'निर्वर्तितं ' इति ङ-पाठः । ४' चारमनतिचार ' इति च पाठः ।
Jain Education International
२ 'सामान्यर्यातपर्याय' इति घ-पाठः । ३ ' विधत्ते' इति ध-पाठः ।
For Personal & Private Use Only
www.jainelibrary.org