SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः ९ सूत्रम् - एकादयो भाज्या युगपदेकोनविंशतेः ॥ ९–१७ ॥ भा० - एषां द्वाविंशतेः परीषाणामेकादयो भजनीया युगपदेकस्मिन् जीवे आ एकोनविंशतेः । अत्र शीतोष्णपरीपही युगपन्न यौगपद्येन परी- भवतः, अत्यन्तविरोधित्वात् । तथा चर्याशय्यानिषद्यापरीषहाः पाणामेकस्य सम्भवे द्वयोरभावः || १७ ॥ २३२ टी० – एकादय इति तद्गुणसंविज्ञानो बहुव्रीहिः । अथवैकशेषः । एकश्चासावादिचै कादिः, एक आदिर्येषां ते एकादयः, एकादिश्व एकादयश्च एकादयः । तदेते द्वाविंशतिः परीषा भाज्या - विकल्प्या युगपदेकस्मिन् यतौ । तत्र कस्यचिदेकः कस्यचिद् द्वौ कस्यचित् त्रयस्तावद् यावदेकोनविंशतिरविरोधात् युगपदेकत्रोदयन्ते, विरोधात् तु न द्वाविंशतिरप्येकस्मिन् युगपदिति । भाज्या इति णिजन्ताद्यत् । णिजपि चौरादिकः । आ ऐकोनविंशतेरिति एकेनोना विंशतिरिति तत्र समासः । तृतीयेति योगविभागान्नञः प्रकृतिभावः । आङुक्तः, ऊनार्थाभिधायी चात्र नञ् । एकेनोना विंशतिरित्यर्थः । विंशतिशब्दस्य द्विदशवर्गवृत्तत्वात् द्वौ दशकौ परिमाणमस्य सङ्घस्य विंशतिः । एकवचनान्तता एकत्वेन निपातनात् । बहुत्वाद् बहुवचनमिति चेत् न, एकार्थत्वाद् यूथ-वनादिवत् । कथं पुनरेकोनविंशतिः समस्ति युगपत् न पुनर्द्वाविंशतिरपीत्याह - अत्यन्तविरोधादिति । शीतोष्णयोरसहावस्थानलक्षणो विरोधः परस्परपरिहारेण स्थितिः । अत्यन्तग्रहणं पर्यायनयविवक्षाप्राधान्यख्यापनार्थम् । शीतोष्ण पर्यायावत्यन्तभिन्नौ-विरुद्धौ तयोश्चैकस्मिन् काले नैकत्वेनावस्थानम् । द्रव्यार्थिकस्य तु तदेव द्रव्यमपास्तसमस्तपर्यायं शीतमुष्णं चेत्युत्थितासीन पुरुषवद् उत्फणविकणीभूतसर्पवद् वा नास्ति कश्चिद् विरोधः । तथा चर्या - शय्या - निषद्यानामेकस्य सम्भवे द्वयोरभावः । चर्यायां सत्यां निषद्या - शय्ये न स्तः । निषद्यायां तु शय्या चर्ययोरभावः । शय्यायां पुनर्निषद्या- चर्ये न भवतः इति त्रयो वर्ज्यन्त इति ॥ १७ ॥ उक्तः परीषहजयः । सम्प्रति प्रस्तावप्राप्तं चारित्रमुच्यते चारित्रस्य पञ्चविधत्वम् सूत्रम् — सामायिक च्छेदोपस्थाप्य - परिहारविशुद्धिसूक्ष्मसम्पराय - यथाख्यातानि चारित्रम् ॥ ९-१८ ॥ भा० – सामायिकसंयमः १ छेदोपस्थाप्यसंयमः २ परिहारविशुद्धिसंयमः ३ सूक्ष्म सम्परायसंयमः ४ यथाख्यातसंयमः ५ इति पञ्चविधं चारित्रम् । तत पुलाकादिषु (अ० ९, सू० ४८ ) विस्तरेण वक्ष्यामः ॥ १८ ॥ १' ' इत्यधिको ग-पाठः । २ एकान्नविंशतेः एकेन म विंशतिरिति नञ्समासः Jain Education International For Personal & Private Use Only ' इति च पाठा | www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy